________________
४००
तत्त्वसंग्रहे अथ जीवतो देवदत्तस्य यो गृहाभावः स इहार्थापत्त्युदाहरणे हेतुत्वेनोच्यते, नाभावमात्रम् ? नैवं युक्तम् कस्मात् ? तत्रापि देवदत्तजीवने संशयात् सन्दिग्धासिद्धता हेतोः स्यात्॥ अनिश्चये कारणमाह
वेश्मन्यपश्यतश्चैव न ह्याग्दर्शिनः प्रमा।
तस्य जीवनसम्बन्धि कथञ्चिदपि वर्तते॥१६४२॥ तस्य चैत्रस्य जीवने निश्चायकप्रमाणाभावादग्दर्शिनः संशय एव॥१६४०-१६४२॥
अथापि स्यात्-यदि नामाग्दिर्शिनः प्रत्यक्षप्रमाणं चैत्रस्य जीवननिश्चये नास्ति, अनुमानादि तु विद्यत एव? इत्याह
___ अथ शब्दादिना तस्य जीवत्तानिश्चये सति। ....
सद्मन्यभावेऽभावाच्च निश्चितेऽस्याः प्रमाणता?॥१६४३॥ शब्दादिनेति। तदुच्चारितशब्दः श्रूयते, प्रत्ययितो वा तस्मिन् काले कुड्याद्यन्तरितस्तमपश्यन्ने कथयति-जीवति चैत्र इति। अभावाच्च-प्रमाणात् प्रत्यक्षादिनिवृत्तिरूपात् [G.470] सद्मनि गृहे, चैत्राभावनिश्चये सति, सिद्धो जीवनविशिष्टश्चैत्राभाव इति भवेदेवास्या अभावोत्थाया अर्थापत्तेः प्रमाणता ॥ १६४३ ॥ तदाऽपीत्यादिना प्रतिविधत्ते
तदापि गेहायुक्तत्वं “दृश्याऽदृष्टेर्विनिश्चितम्। अतस्तत्र बहिर्भावो लिङ्गादेवासीयते॥१६४४॥ सद्मना यो ह्यसंसृष्टो नियतं बहिरस्त्यसौ। गेहाङ्गणस्थितो दृष्टः पुमान् द्वारि स्थितैरिव ॥१६४५ ॥ विपक्षोऽपि भवत्यत्र सदनान्तर्गतो नरः।
अर्थापत्तिरियं तस्मादनुमानान्न भिद्यते॥१६४६॥ अनेनानुमानान्तर्भावमाह । तथा हि-चैत्रोऽत्र धर्मी, तस्य बहिर्भावः साध्यः,.बीवने सति गृहासङ्गो हेतुः कार्यः । गृहाङ्गणस्थितः पुमान् साधर्म्यदृष्टान्तः । गृहान्तर्गतस्तु वैधर्म्यदृष्टान्तः । सदनम् गृहम् । व्याप्तिर्दृष्टान्ताभ्यामेव निश्चिता। न चासिद्धो हेतुः; यतो गेहायुक्तत्वं तावद् दृश्यानुपलब्ध्या निश्चितम्, जीवनं तु पराभ्युपगमात् सिद्धम्। परमार्थतस्तु सन्दिग्धो हेतुः । न हि जीवत्तानिश्चायकं किञ्चित् प्रमाणमस्ति । ननु च शब्दादिरस्तीत्युक्तम्? एवं तर्हि यत एव शब्दादेः प्रमाणाज्जीवनं निश्चितम्, तत एवं बहिर्भावः सिद्ध इति किमर्थापत्त्या कर्तव्यम् ! तस्मात् पराभ्युपगमात्, सिद्धं हेतुमभ्युपगम्यानुमानेऽन्तर्भावः प्रतिपादितोऽर्थापत्तेः५ ॥ १६४४-१६४६॥
इत्यर्थापत्तिपरीक्षा॥
३. तपस्यन्-पा०, गा०। ।
१. जीवनसम्बन्धे-पा०, गा० । ४. दृष्टया०-पा० गा०।।
२. जीवनविषये-पा०, गा०। ५. प्रतिपादित अर्थाः- पा०, गा०।