________________
प्रमाणान्तरभावपरीक्षा
३९९
'यथा कम्पनम्'- इत्यस्य दृष्टान्तस्य पर: साध्यविकलतामुद्भावयन्नाह
प्रत्यक्षद्रव्यवर्तिन्यो दृश्यन्ते ननु याः क्रियाः।
तासां वर्णवदेवेष्टं नित्यत्वं प्रत्यभिज्ञया॥१६३६ ॥ यथा वर्णानां प्रत्यभिज्ञया नित्यत्वमिष्टमस्माभिः, तथा पाण्यादिकर्मणामपीत्यनित्यत्वेन साध्येन विकलो दृष्टान्त इत्यव्यभिचार एव ॥ १६३६ ॥ यद्येवम्, नित्यत्वे सति पाण्यादिकर्मणां किमिति नित्यमुपलब्धिर्न जायते? इत्यत्राह
व्यञ्जकाभावतश्चासां सन्ततानुपलम्भता।
यदेवोत्पादकं वः स्यात् तदेव व्यञ्जकं मतम्?॥१६३७॥ आसमिति क्रियाणाम्। सन्ततानुपलम्भता। यथा भवतामुत्पादकाभावान्नित्योपलब्धिर्न भवति, तथाऽस्माकं व्यञ्जकाभावादिति समानः परिहार इति परस्याभिप्रायः ॥१६३७॥ नैवमित्यादिना प्रतिविधत्ते
नैवमप्रतिबद्धे हि सामर्थ्य सततं भवेत्। तज्ज्ञानं तद्वियोगे तु नैव स्यात् तत् कदाचन ॥१६३८॥
अतश्च व्यञ्जकास्तासां सङ्गच्छन्ते न हेतवः। [G.469] अत्र द्वयी कल्पना-यास्ता: क्रिया अभिव्यङ्ग्या इष्टास्ताः प्रकृत्या ज्ञानोत्पादसमर्था वा स्युः, न वा। तत्र सामर्थ्य सति, सततम् नित्यम्, तद्भाविज्ञानं प्राप्नोति; तासां समर्थस्य स्वभावस्य नित्यत्वेन केनचिदप्रतिबद्धत्वात् । अनाधेयातिशयस्य विशेषमनाधाय प्रतिबद्धमशक्यत्वात्। अथासामर्थ्यम्, तदा तद्वियोगे-सामर्थ्यवियोगे, नैव तद्भावि ज्ञानं स्यादिति किं व्यञ्जकस्य सामर्थ्यम्। तस्मात् तासां क्रियाणां नित्यत्वेनेष्टानां न कथञ्चित् सङ्गच्छन्ते व्यञ्जकत्वेन कल्पिता हेतवः । अनित्यानां त्वपूर्वस्वभावोत्पत्तिर्व्यञ्जकादिति न्याय्यास्तान् प्रति व्यञ्जकाः । यच्चोक्तम्- "तासां वर्णवदेवेष्टं नित्यत्वं प्रत्यभिज्ञया" (तत्त्व० १६३६) इति, अत्राह
प्रत्यभिज्ञा तु नित्यत्वे पूर्वमेव निराकृता॥१३६९॥ नित्यत्वे साध्ये हेतुत्वेन प्रत्यभिज्ञोपन्यस्ता, सा पूर्वं स्थिरभावपरीक्षायां निराकृता ॥ १६३८-१६३९॥ .
यदुक्तम्- "प्रमाणाभावनिर्णीतचैत्राभावविशेषितात्" (तत्त्व १६०१) इत्यत्राह..... — गेहाभावात्तु चैत्रस्य बहिर्भावो न युज्यते।
मरणाशङ्कया यस्मादन्यथाऽप्युपपद्यते॥१६४०॥ जीवतश्चेद् गृहाभावो. बहिर्भावप्रसिद्धये।
अर्थापत्ताविहोच्येत नैव तत्राप्यनिश्चयात्॥१६४१॥ अन्यथापति । बहिर्भावमन्तरेणोपपद्यते गेहे चैत्राभावः। अनेनानैकान्तिकत्वमाह। १. सन्ततं-पा०, गा०।
२. ततश्च-पा०, गा०। ३. इष्टस्ता:- गा०। ।
४. व्यञ्जनस्य-जै०। ५. अर्थापत्त्यावहो होतत्रैव-पा०, गा०