________________
३९८
तत्त्यसंग्रहे कारणं विविक्षां विशिष्टामनुमापयन् हेतुधर्मानुमाने धूमेन्धनविकारवत् सामर्थ्याद् 'रात्रौ भुङ्क्ते' इत्यतव्यतिरेकवाक्यमपि गमयति, न तु साक्षादिति प्रतिपादयन्नाह
द्वितीयवाक्यनिर्भासा विवक्षा वाऽनुमीयते।
एतेनान्वयवाक्याच्च व्यतिरेकगतिर्मता॥१६३०॥ एतेनेति। हेतुधर्मानुमानेन, न तु साक्षात् । यस्मादन्वयवाक्यात् तादृशी विवक्षा गम्यते, यस्यां व्यतिरेकवाक्यमति निर्भासते। अन्यथा यदि रात्रिभोजनं विवक्षायां नारूढं स्यात्, भोजनप्रतिषेधमात्रं केवलं प्रतिपादयितुमिष्टं तदा 'देवदत्तो न भुङ्क्ते' इत्येवोक्तं स्यात्, न तु दिवा, पीन इति। व्यतिरेकगतिरिति। व्यतिरेकवाक्यगतिः ॥ १६३०॥ ..
"गवयोपमिता यो गौः" (तत्त्व० १५९८) इत्यत्राह- .. __उपमायाः प्रमाणत्वे विस्तरेण निराकृते।
अर्थापत्तेतदुत्थाया वारितैव प्रमाणता ॥१६३१॥ इति ॥ १६३१॥
भवतु चोपमायाः प्रामाण्यम्, तथाप्युपमानपूर्विकाया अर्थापत्तेर्गृहीतग्रहणान्न युक्तं पृथक्प्रामाण्यम्; व्यतिरिक्तस्य शक्तिलक्षणस्य प्रमेयस्याभावादिति प्रतिपादयन्नाह
उपमानप्रमाणस्य . गौस्त्वालम्बनमिष्यते। स्वसत्तथैव चालम्ब्यं स्वज्ञानजनकं मतम्॥१६३२॥ तत् किमत्रान्यया शक्त्या यद्गत्यर्थमपेक्ष्यते।
अर्थापत्तेः प्रमाणत्वमुपमानसमाश्रयम्॥१६३३॥ यद्गत्यर्थमिति । शक्तिप्रतीत्यर्थम्। शेषं सुबोधम् ॥ १६३२-१६३३ ॥
'अभिधानान्यथा' (तत्त्व० १५९९) इत्यांदावपत्तिपूर्विकाया अर्थापत्तेरुदाहरणस्यानैकान्तिकत्वमाह
अनन्यत्ववियोगेऽपि शब्दानां न विरुध्यते।
अर्थप्रत्यायनं यद्वत् पाणिकम्पादिकर्मणाम् ॥१६३४॥ यथा ह्यनित्यानामपि पाणिकम्पाक्षिनिकोचादीनामर्थप्रत्यायनं न विरुद्धम्, तथा [G.468] शब्दानामनन्यत्ववियोगेऽपि न विरुध्यत एव-इत्यनैकान्तिकमेवैतदुहारणम् । तत्रान्यत्वमनित्यत्वम्, नान्यत्वमनन्यत्वम् नित्यत्वमिति यावत् ॥ १६३४॥
___ननु चोक्तम्-"अनित्यो हि न सङ्केतव्यहारनुवृत्तिभाक्" (तत्त्व० १६००) इति, अत्राह
तुल्यप्रत्यवमर्शस्य हेतुत्वात् कम्पनं यथा।
प्रत्यायकत्वं शब्दानां तथैव न विरुध्यते॥१६३५॥ यद्यपि स्वलक्षणानां क्षणिकत्वादन्वयो नास्ति, तथापि कानिचित् स्वलक्षणानि प्रकृत्या पारम्पर्येणाभेदाकारस्य भ्रान्तस्य प्रत्यवमर्शज्ञानस्य कारणानि भवन्ति, सन्त्येकत्वेन गृह्यमाणानि प्रत्यायकानि भवन्ति; सङ्केतवशात्। यथा कम्पनम्। प्रत्यायकमिति शेषः ॥ १६३५ ।। १. धूमे वनन्धन०- पा०, धूमेनेन्धन०-पा० ।
२. ०दिकारणम्-पा०, गा०।