________________
३९७
प्रमाणान्तरभायपरीक्षा तथा हीत्यतिप्रसङ्गमेव समर्थयते
तथा हसति सम्बन्धे सति चानवधारिते।
गम्यमानमिदं वाक्यं प्रसज्येताप्रमाणकम् ॥१६२५॥ सति सम्बन्ध इत्यभ्युपगमः । एकदा तावन्नास्त्येव वाक्यस्य वाक्यान्तरेण [G.466] सम्बन्धः, सन्नप्यनवधारितः सम्बन्धोऽसत्प्रख्य एव। ततश्चानवधारिते सम्बन्धे प्रतीयमानप्रमाणकं स्यात्-निर्विबन्धनप्रतीतिकम् । निर्निबन्धना चेत् प्रतीतिः, सर्वं सर्वस्मात् प्रतीयेतइत्यतिप्रसङ्गोऽनिवार्य एव ॥ १६२५ ।। सम्बद्धस्येत्यादिना परवचनावकाशमाशङ्कते
सम्बद्धस्य' प्रमाणत्वं स्थितं नो चेन्नृपाज्ञया।
प्रत्यक्षस्य प्रमाणत्वं कथं वा सङ्गतेविना ?॥१६२६॥ तत्र परो ब्रूते-सम्बद्धस्य प्रामाण्यमिति यदि? परं नृपाज्ञैवेयम्, न त्वत्र काचिद् युक्तिः । तथा हि-सम्बद्धस्य प्रमाणत्वमिति यदि नृपाज्ञा न भवेत्, कथं तर्हि प्रत्यक्षस्य प्रामाण्यं सङ्गतिं विना-सम्बन्धमन्तरेणेति वक्तव्यम् ॥ १६२६॥ अत्रोत्तरमाह
नन्वसम्बन्धगम्यत्वे किमन्यस्यापि नो गतिः। न हि सम्बन्धशून्यत्वे विशेषः कश्चनेक्ष्यते॥१६२७॥ सम्बन्धादेव मानत्वमध्यक्षेऽपि व्यवस्थितम्।
संवादो हि प्रमाणत्वं स चार्थादात्मलाभतः॥१६२८॥ नन्वसम्बद्धं यदि गम्येत तदाऽतिप्रसङ्गः स्याद्, अविशेषात्-इत्यत्र भवता न किञ्चिदुत्तरं दत्तम् । यच्चोक्तम्-कथं प्रत्यक्षस्य विना सम्बन्धेन प्रामाण्यमिति? तदप्यसङ्गतमेव। तथा हि-सम्बन्धं विना न केनचित् प्रत्यक्षप्रामाण्यमभ्युपगतम्? किं तर्हि ? सम्बन्धादेव मानत्वमध्यक्षेऽपि-प्रत्यक्षेऽपि व्यवस्थितम् । अत्रोपपत्तिमाह-संवादो हीत्यादि। अर्थप्रापणशक्तिः संवादः प्रामाण्यम्। स च. संवादो नियमेन प्रत्यक्षस्य कथं युक्तः, यदि ततोऽर्थात् तस्यात्मलाभो न भवेत् ! ॥ १६२७-१६२८॥
अन्यथा को दोषः? इत्याह. अतद्धेतोरेहेतोश्च तत्संवादो न युज्यते।
. नियमेन समस्तानां संवादो वाऽन्यथा भवेत्॥१६२९॥
सोऽर्थो हेतुर्यस्य स तथा, न तद्धेतुरतद्धेतुः । अन्यहेतुक इति यावत् । तस्मादतीतो: प्रत्यक्षादहेतोर्वा सर्वहेतुवैकल्येन तत्संवाद: अर्थसंवादः, न नियमेन स्यात्। किं तर्हि ? समस्तानाम् सर्वेषामर्थानाम्, संवादः स्यादित्यत्रापि समानः प्रसङ्गः ॥ १६२९॥ [G.467] अथ वा-'पीनो देवदत्तो दिवा न भुते' इत्येतदन्वयवाक्यं कार्यालिङ्गमात्मीयं १. प्रतीतिकं स्यात्- गा०। ३. सङ्गतिं विना-पा०, गा०। ४. नन्वसम्बद्ध०- पा०, गा०।
२. सम्बन्धस्य-जै०।