________________
३९६
तत्त्वसंग्रहे स्यादेतत्, न हि वाक्येनार्थगतिमपेक्ष्य वाक्यान्तराक्षेपः क्रियते, किं तर्हि ? केवलेनैव। तच्च प्रत्यक्षतः सिद्धमेव? इत्याह-अर्थगत्यनपेक्षेणेति । अर्थगति पेक्ष्यत इत्यर्थगत्यनपेक्षं वाक्यम्, तेन केवलेन वाक्यमात्रेण यदि सार्थकं वाक्यान्तरस्यान्तरमाक्षिप्यते, तदा स्यादाक्षेपो वचोऽन्तरे रात्रिभोजनवाक्यादन्यस्यापि वाक्यान्तरस्याक्षेपः प्राप्नोति; सम्बन्धरहितत्वेनाविशेषात्। अथ वस्तुप्रतिबन्धादर्थमाक्षिपतीति? इत्यर्थगत्यपेक्षणे तद्दोषः ॥ १६२० ॥ अथेत्यादिना पराभिप्रायमाशङ्कते
अथोपगमरूपेण तत्रार्थगतिरिष्यते।
प्रमाणान्तरतो यद्वा? अथ मा भूदतिप्रसङ्ग इति 'न्याय्यामर्थगतिमपेक्ष्य परोपगमनरूपेणार्थगतिरिष्यते, [G.465] परस्य वक्तुराप्तत्वेनाभ्युपगतत्वात्! यद्वा-प्रमाणान्तरतः प्रत्यक्षादेर्ज्ञानम्-'पीनो देवदत्तो दिवा न भुङ्क्ते' इति। अत्र प्रतिविधत्ते
भवत्वर्थगतिस्ततः ॥१६२१॥ . भवतु अर्थस्य रात्रिभोजनस्य गतिः, ततः=दिवाभोजनवैकल्येन विशेषितात् पीनत्वात्। न तु वाक्यान्तरस्य बुद्धिस्थस्य गमकत्वम् । एवं सत्यनुमान एवान्तर्भावान प्रमाणान्तरत्वं स्यादित्यभिप्रायः ॥ १६२१॥ तमेवान्तर्भावं दर्शयन्नाह
क्षपाभोजनसम्बन्धी पुमानिष्ट प्रतीयते।
दिवाभोजनवैकल्यपीनत्वेन तदन्यवत् ॥१६२२॥ इष्टः विवक्षितः पुरुषविशेषो रात्रिभोजनविशिष्टः पक्ष: । दिवाभोजनवैकल्ये सति पीनत्वादिति हेतुः । तदन्यपुरुषवदिति दृष्टान्तः । कार्यहेतुश्चायम् ॥ १६२२ ॥ कथमत्र कार्यकारणभावः सिद्धः? इत्याह
भोजने सति पीनत्वमन्वयव्यतिरेकतः।
निश्चितं तेन सम्बद्धाद् वस्तुनो वस्तुतो गतिः ॥१६२३॥ अग्निधूमयोरिवान्वयव्यतिरेकाभ्यां पीनत्व-भोजनयोः कार्यकारणभावो निश्चितः; यतस्तस्माद् वस्तुनः पीनत्वात् कार्यत्वेन सम्बन्धाद्. वस्तुतो भोजनस्य गतिर्युक्ता। न तु वाक्यादप्रतिबद्धाद् वाक्यान्तरस्य प्रतीतिर्युक्ता; अतिप्रसङ्गात् ॥ १६२३॥ तमेवातिप्रसङ्गं दर्शयितुमाह
सर्वसम्बन्धशून्यं हि कथं वाक्यं प्रतीयते।
एकस्माद् वाक्यतः सर्वं प्रतीयेतान्यथा पुनः ॥१६२४॥ सर्वेण सम्बन्धेन तादात्म्यतदुत्पत्तिलक्षणेन शून्यम्-रहितं वाक्यं कथं प्रतीयेत? नैव। अन्यथा यदि सर्वसम्बन्धशून्यमपि प्रतीयेत, तदा यतः कुतश्चिदेकस्माद् वस्तुनो घटादेः सर्वं घटादि प्रतीयेत। न चैवम्। तस्मात् प्रतिबन्धात् प्रतिपत्तिरभ्युपगन्तव्या॥ १६२४ ।। १. न्यायादर्थ-पा०, गा०। २. पा० गा० पुस्तकयो स्ति। ३. भोजनवैकल्ये-पा०, गा०।