________________
३९५
प्रमाणान्तरभावपरीक्षा येन यस्मात् अस्मिन् प्रत्यक्षविषये नानुमानमिष्यतेऽस्माभिः, परोक्षार्थप्रतिपत्तिरूपत्वादनुमानस्य। अनेन सिद्धसाध्यतामाह ॥ १६१४ ॥ यदुक्तम्-"श्रोत्रादिशक्तिपक्षे च" (तत्त्व० १५९०) इति, अत्राह
ये तु श्रोत्रादयो भावा: प्रत्यक्षस्य न गोचराः।
तेषां सत्तैव लिङ्गेन गम्यते शक्तिलक्षणा ॥१६१५॥ ननु च 'सत्ता तु साध्यत एव' इति पूर्व प्रतिपादितम्, तत् कथं 'सत्ता गम्यते' इत्युच्यते? इत्याह
कारणान्तरसापेक्षं तद्धि शब्दादिवेदनम्।
भावेऽप्यन्यस्य सद्धेतोरभावादंकुरादिवत् ॥१६१६॥ न ह्याहत्य सत्ता साध्यते, किं तर्हि ? कारणान्तरसापेक्षत्वं श्रोत्रादिज्ञानस्य धर्मिणः साध्यते, अन्यस्य मनस्कारादेस्तद्धेतोः श्रोत्रादिज्ञानहेतो वेऽप्यभावाच्छ्रोत्रादिज्ञानस्य। प्रयोगः-यद्यस्मिन् सत्यपि कदाचिद् भवति, तत्कारणान्तरसापेक्षम्, यथा क्षित्यादौ सत्यपि कदाचिद् भवनङ्करः । सत्यपि मनस्कारादौ कदाचिद्भवति श्रोत्रज्ञानमिति स्वभावहेतुः । . तस्मिन् कारणान्तरसापेक्षत्वे साधिते यत्कारणान्तरं तत् श्रोत्रादि प्रसिद्धमित्यनेन प्रकारेण सत्ता गम्यत इत्युच्यते, न त्वाहत्येत्यदोषः ॥१६१६ ॥ यदुक्तम्-"अनुमितात् सूर्ये यानात्" (तत्त्व० १५८७) इति, अत्राह
उपादानासमाने च देशे जातिनिरन्तरम्। रवेर्देशान्तरप्राप्त्या ज्वालादेरिव गम्यते ॥१६१७॥ स्थिरात्मनो विशेषत्वान्नान्यथेयं प्रसज्यते।
तस्य देशान्तरप्राप्तिः शक्तिस्त्वंन्या निराकृता ॥१६१८॥ [G.464] अनेनानुमानान्तर्भावमाह। तथा हि-यस्य यस्य देशान्तरप्राप्तिरुपलभ्यते, तस्य स्वोपादनकारणदेशपरिहारेण जातिः, यथा ज्वालादेर्देशान्तरं प्राप्नुवतः, देशान्तरप्राप्तिश्च रवेरिति स्वभावहेतुः । न चायमनैकान्तिकः, यतः स्थिरात्मन एकरूपस्य भावस्य नेयं देशान्तरप्राप्तिर्युक्ता; पूर्वदेशाप्रतिनियतस्वभावापरित्यागात्। त्यागे वाऽपूर्वोत्पत्तिरेवेति । इदमेव बाधकं प्रमाणम्।
स्यादेतत्, शक्तौ साध्यायामियमर्थापत्तिरुदाहृता, नोत्पत्तौ, तत् कथमस्या अर्थापत्तेरनुमानान्तर्भाव उच्यते? इत्याह-शक्तिस्त्वन्या निराकृतेति ॥ १६१७-१६१८ ॥
'पीनो दिवा' (तत्त्व० १५९१) इत्यादौ श्रुतार्थापत्त्युदाहरणे प्राह. पीनो दिवा न भुङ्क्ते चेत्यस्मिन्नर्थे न निश्चयः।
द्वेषमोहादिभिर्योगादन्यथाऽपि वदेत् पुमान् ॥१६१९॥ पीन इत्यादि । अनेन शाब्दप्रमाणपूर्वकत्वस्यासिद्धतामाह ॥ १६१९ ।।
अर्थगत्यनपेक्षेण यदि वाक्यान्तरं पुनः।
सार्थमाक्षिप्यते तेन स्यादाक्षेपो वचोऽन्तरे ॥१६२०॥ १. अङ्कर:-पा०,गा०। २. ०व्याप्त्या-पा०, गा०।
३. उत्पत्तिरित्यर्थः।