________________
प्रमाणान्तरभावपरीक्षा
४०५ वाऽन्यवस्तुनि" इत्येतस्माद् द्वितीयात् पक्षादस्य विशेषो नोक्तः स्यात् । ततश्च पक्षद्वयनिर्देशोऽनर्थकः स्यात्॥ १६६१-१६६३ ॥
अन्यवस्तुनीत्यादिना द्वितीयेऽभावलक्षणे व्यभिचारितामाह___ अन्यवस्तुनि विज्ञाने वृत्ते सर्वस्य नास्तिता।
अदृश्यस्यापि गम्येत द्वितीयाभावसंश्रये॥१६६४॥ अदृश्यस्यापति । देशकालस्वभावविप्रकृष्टस्य। द्वितीयाभावइति। विज्ञानं वाऽन्यवस्तुनि' (तत्त्व० १६४८) इत्येतस्मिन् ॥ १६६४॥ अथापि स्यात्- न सर्वस्यादृष्टस्याभावः साध्य इष्टः, किं तर्हि ?
तत्तुल्ययोग्यरूपस्य कारणान्तरसन्निधौ।
तद्विभक्तान्यविज्ञाने नास्तिता चेत् प्रतीयते॥१६६५॥ तेनोपलभ्येन घटादिविविक्तप्रदेशेन तुल्यं रूपं योग्यता तस्य स तथोक्तः । उपलब्धिलक्षणप्राप्तस्येति यावत्। तद्विविक्तान्यविज्ञान इति घटादिविविक्तप्रदेशज्ञाने ॥ १६६५ ॥ शक्येत्यादिना प्रतिविधत्ते.
शक्यदर्शनवस्त्वाभप्रत्यक्षस्यैव नास्तिता। एवं सति समाख्येया नान्येषां व्यभिचारिणी॥१६६६॥ अन्यवस्तुनि विज्ञानं जातं.वा ज्ञायते कथम्। अप्रत्यक्षा मता बुद्धिर्येनार्थापत्तितो यदि॥१६६७॥
सापि ज्ञानात्मिकैवेति तस्या अपि कुतो गतिः! .. अर्थापत्त्यन्तरप्रोक्तावनवस्था प्रसज्यते॥१६६८॥ [G.476] शक्यदर्शनस्य उपलब्धिलक्षणप्राप्तस्य वस्तुनः, आभा आकारो यस्य तत्तथा, शक्यदर्शनवस्त्वाभं च तत् प्रत्यक्षं चेति कर्मधारयः। नान्येषामिति अनुमानादीनाम्। यतस्तेषां परोक्ष एवार्थो विषयः । न च तेषां निवृत्तौ परोक्षस्य देशकालस्वभावविप्रकृष्टस्य निवृत्तिरस्तीत्यतो व्यभिचारिणी तेषां निवृत्तिः, ततश्च "प्रत्यक्षादेरनुत्पत्तिः" (तत्त्व १६४८) इत्यत्रादिग्रहणमनर्थकं स्यात्। .
अपि च-तदन्यवस्तुनि विज्ञानं यदि निश्चितं भवेदेवं प्रतियोगिनाऽभावं साधयतीत्येवमवश्यमभ्युपगन्तव्यम्; अन्यथा हि सत्तामात्रेण ततोऽभावसिद्धौ सत्यां सर्वस्य पुंसस्तस्मादेकपुरुषोत्पन्नादपि ज्ञानादभावसिद्धिप्रसङ्गः स्यात्। तत्र येन मीमांसकेनाप्रत्यक्षा बुद्धिरभ्युपगता, तेन तदेव तदन्यवस्तुनि जातं विज्ञानं कथं ज्ञायेत? नैव! अर्थापत्तितो यति।'ज्ञायते' इति प्रकृतेन सम्बन्धः । यथोक्तम्- "अज्ञातेऽर्थे बुद्धेरसिद्धरर्थज्ञानालिङ्गात्तद्बुद्धिरनुमीयते" (मी० द० शा०. भा० १.१.५) इति। तत्र लिङ्गवचनमन्यथाऽनुपपत्तिवाचकम्। अर्थज्ञानादन्यथाऽनुपपन्नादित्यर्थः । अनुमीयते, प्रमीयत इति यावत्। एवं तर्हि साऽप्यर्थापत्तिर्ज्ञानात्मिकेति तस्या अपि कुतो गतिरिति वक्तयम्; अन्यस्या अर्थापत्तेरिति चेत्? एवं सत्यनवस्था स्यात्।
यदि वस्तु प्रमाभावो मेयाभावस्तथैव च। १. तद्विविक्ता०-पा०, गा०।
२. समाख्येयो-पा०, गा०॥
३. अत्र-पा०, गा०।