SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सामान्य (जाति) परीक्षा २२५ स्थितिस्तत्समवायश्चेन्न त्वेष्वेव' विचार्यते। सोऽभीष्टोऽयुतसिद्धनामाश्रयाश्रयितात्मकः ॥८००॥ अवश्यं सामान्यस्य भेदेषु वृत्तिरेष्टव्या, अन्यथा कथं तेषु प्रतिनियतैकाकारा बुद्धिस्तनिबन्धना सेत्स्यति । तत्र च वृत्तिरस्य भवन्ती स्थितिलक्षणा वा भवेत्, तदभिव्यक्तिलक्षणा वा, स्थितिरपि द्विधा-स्वभावाप्रच्युतिलक्षणा वा, यद्वाऽधोगतिप्रतिबन्धलक्षणा। तत्र न तावदादया; नित्यत्वात् स्वत एव स्वभावाप्रच्युतेः सिद्धत्वात्। नापि द्वितीया-अमूर्तसवंगतत्वाभ्यां निष्क्रियतयाऽधोगमनासम्भवात् । अतो न तत्प्रतिबन्धकत्वसाधारणं युक्तम्। .. 'भेदेषु यः सामान्यस्य समवायः सा स्थितिः' इत्येतदप्यनुत्तरमेव; तस्यैव समवायस्य विचार्यमाणत्वात्। तथा हि-अपृथक्सिद्धानामाश्रयाश्रयिभावलक्षणः सम्बन्धः समवाय उच्यते, तदभिव्यङ्गितया वा-इतीदमेव निरूपयितुमारब्धम्।न हि परस्परासङ्कीर्णात्मनामकञ्चित्करम र्थान्तरं समवायो युक्तः; अतिप्रसङ्गात्। एवं हि सर्वः सर्वस्य समवायः स्यात् । तथा हिपरस्परव्यावृत्तशरीरान् भावान् यः संश्रेषयति स समवायः कल्पितः । न चार्थान्तरसद्भावेऽपि स्वात्मनि व्यवस्थिताः परस्परस्वभावमन्वाविशन्ति; स्वरूपहानिप्रसङ्गात् । तस्य चार्थान्तरस्य 'समवायः' इति नामकरणे न विवाद इत्युक्तमर्थान्तरम्, स्थितिरिति॥७९७-८०० ॥ स्यदित्यादिना सामान्यं प्रत्याधारकल्पनाया अत्यन्तासम्बद्धतां दर्शयति-[G.260] स्यादाधारो जलादीनां गमनप्रतिबन्धकः। अगतीनां किमाधारैः सामान्यानां प्रकल्पितैः ॥८०१॥ स्वज्ञानोत्पत्तियोग्यत्वे किमभिव्यक्तिकारणैः। स्वज्ञानोत्पत्त्ययोग्यत्वे किमभिव्यक्तिकारणैः ॥८०२॥ ह्यः समर्थः समर्थात्मा व्यञ्जकैः क्रियते यदि। भावोऽस्थिरो भवेदेवं दीपव्यङ्गयघटादिवत् ॥८०३॥ अगतीनामिति गतिरहितानाम्; अमूर्तसर्वगतत्वाभ्यां गतेरभावात्। तदभिव्यक्तिलक्षणापि स्थितिरयुक्ता। तथा हि-तद्विषयज्ञानोत्पादनमेव तस्याभिव्यक्तिः, न तु स्वभावपरिपोषणलक्षणा; नित्यस्य स्वभावान्यथाकरणसम्भवात्। ततश्च तस्य यदि स्वत एव ज्ञानोत्पादनसामर्थ्यम, तदा किमित्यभिव्यक्तिकारणमपेक्षते। अथासामर्थ्यम, तदा परैरनाधेयविषयत्वान्न तदपेक्षा युक्तिमती। परैराधेयविशेषत्वे चाङ्गीक्रियमाणे सत्यनित्यत्वप्रसङ्गः, ततश्च व्यक्तिवदेवासाधारणत्वान्न सामान्यं स्यात्। भाव इति। भवतोऽस्मादभिधानप्रत्ययाविति कृत्वा कृत्स्न एव सामान्यपदार्थ उच्यते। प्रयोगः-यस्य यस्मिन् वृत्तिनिबन्धनं न किञ्चिदस्ति न तत् तस्मिन्वर्तते, यथा विन्ध्ये हिमवान्। नास्ति च सामान्यस्य भेदेषु वृत्तिनिबन्धनं किञ्चिदिति व्यापकानुपलब्धिः ॥ ८०१-८०३ ॥ घटादीत्यादिना दूषणान्तरमप्याह. घटादिजातिभेदाच 'स्वाश्रयेष्वेव भाविनः। सर्वत्र वृत्तिभाजो वा भवेयुः परजातिवत् ॥८०४॥ १.न तथैव-पा०, गाला .
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy