________________
२२४
तत्वसंग्रहे विजातीयव्यवच्छेदेन कल्पितैकगोव्यावृत्तिनिबन्धनत्वस्येष्टत्वात्। न शाबलेयाद् गोबुद्धिः' इत्यत्रापि साक्षात्तदुत्पत्तिनिषेधे साध्ये सिद्धसाध्यता; 'तत्स्वलक्षणानुभवसङ्केतमनस्कारादिव्यवहितत्वात्। अथ परम्परयापि ततो न भवतीति साध्यते; तदा प्रतिज्ञाया अनुभवबाधा, दृष्टान्तस्य च साध्यविकलता।
___ अन्यालम्बनत्वेऽपि साध्ये-यदि सन्निहिते शाबलेये 'गौरयम्' इति या बुद्धिरुत्पद्यते सा ततोऽन्यालम्बनेति साध्यते, तदाऽत्राप्यनुभवविरोधः; तथा हि-सा सन्निहितपिण्डाध्यवसायेनैव वर्त्तते, दृष्टान्तस्य च साध्यविकलता। अथ तदसन्निधाने या बाहुलेयादिसन्निधौ तथा प्रवृत्ता बुद्धिः, सा ततोऽन्यालम्बनेति साध्यते, तदा सिद्धसाध्यता। यदि तु साक्षाद्वस्तुसदालम्बनेति साध्यते, तदाऽनैकान्तिकता; न ह्यस्य किञ्चित् परमार्थतो वस्तु सदालम्बनमस्ति' इति प्रतिपादितत्वात्। यच्च प्रत्येकपरिसमाप्तार्थविषयत्वसाधनम्, तत्रापि सामान्येन साध्ये सिद्धसाध्यता; 'प्रतिपादनार्थमतद्रूपपरावृत्तवस्तुरूपाध्यवसायेन प्रवृत्तत्वात्। ...
अथ नित्यैकप्रत्येकपरिसमाप्तवस्तुभूतसामान्याख्यपदार्थविषयत्वं साध्यते, तदा दृष्टान्तस्य साध्यविकलता, हेतोश्चानैकान्तिकता; तथाविधेन धर्मेण क्वचिदप्यन्वयासिद्धेः। एकस्य च सर्वात्मना बहुषु परिसमाप्तत्वे सर्वेषां व्यक्तिभेदानां परस्परमेकरूपतापत्तिः, एकव्यक्तिपरिनिष्ठितस्वभावसामान्यपदार्थसंस्पृष्टत्वादेकव्यक्तिरूपत्वात् । सामान्यस्य वाऽनेकत्वापत्तिः; युगपदनेकवस्तुपरिसमाप्तात्मरूपत्वात्, दूरदेशावस्थितानेकभाजनगतबिल्वादिफलवदित्यनुमानबाधा । तेन यदुक्तम्-"न चात्र बाधकः प्रत्ययोऽस्ति" ( ) इति, तदसिद्धम्; पूर्वं चोक्तत्वाद्, वक्ष्यमाणत्वाच्च बाधकस्य यच्चैकत्वसाधनं चादेः, तत्रापि जाते: प्रत्येकसमवेताया असिद्धत्वादेकबुद्धिग्राह्यत्वमसिद्धमित्याश्रयासिद्धो हेतुः । ब्राह्मणादिनिवर्त्तनं च परमार्थतो नैकम्, अवस्तुत्वादिति साध्यविकलमुदाहरणम्। काल्पनिके चैकत्वे साध्ये सिद्धसाध्यता; कल्पितस्यापोहरूपत्वेनेष्टत्वात्। ,
यच्चाप्युच्यते-"नात्र कारणदोषोऽस्ति' (श्रो० वा०, वन० ४६)इति, तदप्यसिद्धमेव; अनादेरविद्यावासनालक्षणस्य [G.259] कारणदोषस्य विद्यमानत्वात् । तदेवमनया दिशा कुहेतवोऽमी दूष्याः ।। ७९५-७९६॥
___ एवं तावद् विस्तरेण परोक्तसामान्यसाधनानां दूषणमभिधाय सामान्यस्य बाधकं प्रमाणमभिधातुकाम आह
अपि चानेकवृत्तित्वं सामान्यस्य यदुच्यते। तत्र केयं मता वृत्तिः स्थितिः किं व्यक्तिरेव वा ॥७९७॥ स्वरूपाप्रच्युतिस्तावत् स्थितिरस्य स्वभावतः । नाधारस्तत्कृतौ शक्तो येन स्थापकता भवेत् ॥७९८॥ गमनप्रतिबन्धोऽपि न तस्य बदरादिवत्। '
विद्यते निष्क्रियत्वेन नाधारोऽत: प्रकल्प्यते ॥ ७९९ ॥ १. तस्वलक्षण-पा०, त (स्य) स्वलक्षण-गा०। २. प्रतिपदार्थल-पा०, गा० ।