________________
सामान्य (जाति) परीक्षा
२२३ "तस्य, शक्तिरशक्तिर्वा या स्वभावेन संस्थिता। 'नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः ॥"
(प्र० वा० २.२२) इति ॥७८८-७९४ ॥ यच्चोक्तम्-"गोतश्चार्थान्तरं गोत्वम्" (तत्त्व०७१९) इत्यादि, तस्य पाचकादिभिरनैकान्त इति दर्शयति
गोतश्चार्थान्तरं गोत्वं भिन्नधीविषयत्वतः। रूपस्पर्शादिवत् तस्येत्युक्तेश्चैत्रतुरङ्गवत् ॥७९५॥ इत्यस्मिन् व्यभिचारोक्तिः पाचकत्वादिभिस्तथा।
अनया च दिशाऽन्येऽपि सर्वे दूष्याः कुहेतवः ॥७९६॥ तथा हि-पाचकादिभ्यः पाचकत्वादेरसत्यप्यर्थान्तरभावे 'पाचकः पाचकः' इति भिन्नधीविषयत्वं भवत्येव, देवदत्तस्य पाचकत्वमिति च व्यतिरेकविभक्तिर्भवतीत्यतः साधारणानैकान्तिकता हेतोः । अन्येऽपि कुहेतव इति। कुमारिलगदिताः । तत्रामी तेन कुहेतव उक्ताः-गोपिण्डभेदेषु या गोबुद्धिरियमेकगीत्वनिबन्धना; गवाभासत्वादेकाकारत्वाच्च, एकगोपिण्डविषयबुद्धिवत्। अथ वा-येयं गोबुद्धिः सा साबलेयान्न भवति। यद्वातद्व्यतिरिक्तार्थालम्बना, तदभावेऽपि भावात्; यथा घटे पार्थिवबुद्धिः।
सर्वगतत्वं कथं तस्य सिद्धमिति चेद् ? उच्यते; येयं गोमतिः सा प्रत्येकसमवेतार्थविषया च प्रतिपिण्डं कृत्स्नरूपपदार्थाकारत्वात्, प्रत्येकव्यक्तिविषयबुद्धिवत्। एकत्वमपि सिद्धमेव, तथा हि-यद्यपि सामान्यं प्रत्येकं सर्वात्मना परिसमाप्तम्, तथापि तदेकमेव; एकाकारबुद्धिग्राह्यत्वात्, यथा नञ्युक्तेषु ब्राह्मणादिनिवर्तनम्। न चैतच्छक्यं वक्तुम्-भिन्नेषु योऽयमभिन्नांकारप्रत्ययः स भ्रान्तः, तेन तद्बलाद् वस्तुतत्त्वव्यवस्थानमसङ्गतमिति; यतो नास्य कारणदुष्टताऽस्ति। नापि बाधकप्रत्ययोद्भवः । तस्मान्मिथ्यात्वनिबन्धनाभावादयुक्तमेतदिति। आह.च (थो० वा०, वन० ४४-४७, ४९)
"पिण्डभेदेषु गोबुद्धिरेकदोत्वनिबन्धना। गवाभासैकरूपाभ्यामेकगोपिण्डबुद्धिवत् ॥ न शाबलेयाद् गोबुद्धिस्ततोऽन्यालम्बनापि वा।
[G.258] सदभावेऽपि . सद्भावाद् घटे पार्थिवबुद्धिवत्॥ प्रत्येकसमवेतार्थविषया वाऽथ गोमतिः। प्रत्येकं कृत्स्नरूपत्वात् प्रत्येकव्यक्तिबुद्धिवत्॥ प्रत्येकसमवेताऽपि जातिरेकैकबुद्धितः । नयुक्तेष्विव वाक्येषु ब्राह्मणादिनिवर्तनम् ॥ नैकरूपा मतिर्गोत्वे मिथ्या वक्तुं च शक्यते।
नात्र कारणदोषोऽस्ति बाधकप्रत्ययोऽपि वा ॥" इति। तदत्र प्रथमे साधने तावत् साध्यविकलमुदाहरणम्; एकस्य गोत्वस्यासिद्धेस्तन्निबन्धनत्वमेकगोबुद्धेरप्यसिद्धमेव। अथ सामान्येनैकनिबन्धनत्वं साध्यते, तदा सिद्धसाध्यता;