________________
२२२
तत्वसंग्रहे अतीतानुपजातेषु नित्यसामान्यगोचरम्। . ज्ञानं चेत् केवलं नेदं सामान्यं गृह्यते न तु ॥७८९ ॥ केवलस्योपलम्भे वा न व्यक्तीनामिदं भवेत्। सामान्यं न च तद्व्यङ्ग्यं विन्ध्यस्येव हिमालयः ॥७९०॥ नोत्पत्तिपारतन्त्र्येण प्रतिबद्धं हि तास्विदम्। न ज्ञानपारतन्त्र्यं च नित्यत्वात् केवलग्रहात् ॥७९१॥ स्वाश्रयेन्द्रिययोगादिव्यपेक्षाया असम्भवात्। तत् सदैवोपलभ्येत यदि वा न कदाचन ॥७९२ ॥ स्वात्मनि ज्ञानजनने योग्यं वाऽयोग्यमेव वा। ... यद्येकदा तदा रूपं सर्वदैव हि तद् भवेत् ॥७९३ ॥ तस्य योग्यमयोग्यं वा रूपं यत् प्रकृतिस्थितम्।
तद् धौव्यादप्रकम्प्यं हि को नाम चलयिष्यति!॥७९४॥ इच्छया रचितं रूपं स्वभावो यस्य स तथोक्तः, स आदिर्यस्येति विग्रहः । आदिशब्देन नष्टाजातपरिग्रहः। न हि तत्र कल्पितादिषु सामान्यमस्ति, येन तन्निबन्धना तेषु मतिः स्यात् ।
स्यादेतत्-मा भूत् कल्पितेषु सामान्यम्, अतीताजाते तु तन्निबन्धना बुद्धिर्भविष्यति? तदेतन्मिथ्या; न ह्याश्रितानामयं धर्मो यदाश्रयमंन्तरेणापि केवलानामवस्थानं भवेत्; अनाश्रितत्वप्रसङ्गात्।
भवतु नाम केवलानामवस्थानम्, तथापि दोष एव; केवलस्य सामान्यस्य ग्रहणानभ्युपगमात्। तथा चोक्तम्-"स्वाश्रयेन्द्रियसन्निकर्षापेक्षप्रतिपत्तिकं सामान्यम्" ( ) इति। केवलस्य सामान्यस्य ग्रहणे सामान्यधियो व्यक्तिव्यवसायो न प्राप्नोति; व्यक्तेस्तदानीमभावात् । व्यक्तीनामिदं सामान्यमिति सम्बद्धश्च न स्यात्; निबन्धनाभावात् । तथा हिनिबन्धनं भवत् सम्बन्धस्य तद्व्यङ्ग्यत्वं वा सामान्यस्य भवेत्, तज्जन्यता वा, तद्ग्रहणापेक्षग्रहणता वा । तत्र न तावत्ताभिर्व्यङ्गयत्वात् तत्सम्बद्धं सामान्यम्; नित्यतया परैरनुपकार्यस्य विशेषाभावाद् व्यङ्गत्वानुपपत्तेः । यो हि यस्यानुपकारकः स तस्याभिव्यञ्जको न भवति, यथा विन्ध्यस्य हिमवान् । तथा च व्यक्तयः सामान्यस्येति व्यापकविरुद्धोपलब्धेः । अनुपकारकस्यापि व्यञ्जकत्वेऽतिप्रसङ्गः; सर्वः सर्वस्य व्यञ्जकः स्यात् । अत एवं नित्यतया तस्याभ्युपगतत्वात् तासु नोत्पत्तिपारतन्त्र्यमपि तस्य युक्तम्। केवलस्यापि ग्रहणान्नापि तज्ज्ञानपारतन्त्र्यमिति त्रयाणामपि पक्षाणामसम्भवः । ततश्च यदिदमुच्यते-"स्वाश्रयेन्द्रियसन्निकर्षापेक्ष[G.257] प्रतिपत्तिकं सामान्यम्" ( ) इति, तदयुक्तम्; आश्रयस्यैवायोगात्; कुतस्तद्गतेन्द्रियसन्निकर्षाद्यपेक्षता भविष्यति। आदिग्रहणेनात्ममनःसन्निकर्षादिपरिग्रहः । नित्यतया परैरनुपाधेयविशेषत्वान्नाप्यस्य क्वचिदपेक्षाऽस्ति, ततश्च यदि तत् स्त्रविषयज्ञानोत्पादनसमर्थम्, तदा सर्वदैव तज्जनयेत् । अथासमर्थम्, तदा न कदापि जनयेत्, न हि तस्य तद्रूपं समर्थमसमर्थं वा तत् क्वचिदन्यथाकर्तुमीशते; नित्यत्वहानिप्रसङ्गात् । यथोक्तम्६. चेदं--पा०, गा०।