________________
२२६
तत्वसंग्रहे घटादिजातिभेदाश्चेति । घटत्वपार्थिवत्वादयः सर्वगतत्वेन वर्ण्यमानाः कदाचित् स्वाश्रयमात्रव्यापितया वयेरन्, यद्वा देशे सर्वत्र भावादिति पक्षद्वयम्। परजातिवदिति। महाविषयतया सत्ता परेत्यभिधीयते । इयं च महाविषयत्वमात्रासाम्येनैव दृष्टान्तीकृता । न तु व्यक्त्यन्तरालवर्त्तिदेशव्यापितया; तस्या अपि तद्धर्माप्रतीतेः ॥ ८०४॥ . तत्र प्रथमे पक्षे दोषमाह
तत्र देशान्तरे वस्तुप्रादुर्भावे कथं नु ते।
दृश्यन्ते वृत्तिभाजो वा तस्मिन्निति न गम्यते ॥८०५॥ [G.261) घटादिव्यक्तिशून्ये देशे घटादिवस्तुप्रादुर्भावे सति ते जातिभेदा घटत्वादयः कथं तत्र घटादौ दृश्यन्ते वर्तन्ते चेति न गम्यते-नावबुध्यत इति यावत् ।। ८०५ ॥ ... कथम्? इत्याह
न हि तेन सहोत्पन्ना नित्यत्वान्नाप्यवस्थिताः।
तत्र प्रागविभुत्वेन न चाऽऽयान्त्यन्यतोऽक्रियाः ॥८०६॥ तथा हि-यदि घटादिना व्यक्तिभेदेन सहोत्पन्नास्ते भवेयुः, प्राग्वा तत्रावस्थिता: स्युः, अन्यतो वा देशान्तरादागच्छेयुः, तदा तत्र दृश्येरन्, वर्तेरन् वा। यावता न तेषामुत्पाद: नित्यत्वात्। नापि प्रागवस्थानम् सर्वव्यापित्वात् । नाप्यन्यदेशादागमनम्; अक्रियत्वात्। तत् कथं तेषु तेषां वृत्तिरुपलब्धिर्वा भवेत् ! प्रयोग:-ये यत्र नोत्पन्नाः, नापि प्रागवस्थायिनः, नापि पश्चादन्यतो देशादागतिमन्तः, ते तत्र नोपलभ्यन्ते, नापि वर्तन्ते, यथा-शशशिरसि तद्विषाणम्। तथा च सामान्यम्। तच्छून्यदेशोत्पादवति घटादिके वस्तुनीति व्यापकानुपलब्धिः। न चायमनैकान्तिको हेतुः; तत्र वृत्त्युपलम्भयोः प्रकारान्तराभावात् ॥ ८०६॥ द्वितीयेऽपि पक्षे दोषमाह
स्वाश्रयेन्द्रिययोगादेरेकस्मिस्सद्ग्रहे सति।
सर्वत्रैवोपलभ्यस्तत्स्वरूपाविभागतः ॥८०७॥ __ स्वाश्रयेन्द्रियसंयोगादेः उपलम्भहेतोः। आदिशब्देनात्ममनःसन्निकर्षादिपरिग्रहः। रेततः एकस्मिन् व्यक्तिभेदे तेषां जातिभेदानां ग्रहणे सति सर्वत्रैव विजातीयेऽपि व्यक्तिभेदेऽन्तराले चोपलभ्येरन्; तेषां यथास्वमेकरूपतया प्रत्येकं गृहीतरूपाव्यतिरेकात् ॥ ८०७॥ एतदेव स्पष्टयन्नाह
ज्ञातादव्यतिरिक्तं चेत् तस्यापि ग्रहणं भवेत्।
तद्वदेव न वा तस्य ग्रहणं भेद एव वा ॥८०८॥ तथा हि-दृष्टव्यक्तिसमवेतसामान्यरूपाद्विज्ञातादव्यतिरिक्तं चेद् व्यक्त्यन्तरालवर्ति सामान्यरूपम्, तदा तस्यापि ग्रहणं भवेत्; गृहीतादभिन्नत्वात्, गृहीतस्वरूपवत्। अथ तस्य ग्रहणं न भवति, तथा सत्यगृहीतरूपाव्यतिरेकात् तद्वद् दृष्टव्यक्तिसमवायिनोऽपि ग्रहणं न स्यात्। अथोभयरूपताऽङ्गीक्रियते, तदा स्वभावभेदप्रसङ्गः; परस्परविरुद्धधर्माध्यासात्। [G.262] न ह्यन्योन्यप्रत्यनीकग्रहणाग्रहणधर्माध्यासितमपिं सदेकमिति युक्तमभिधातुं १. आश्रयेष्वेव- ज०। २. घटत्वादिजातिभेदादि-पा०. गा०। '३. पा०, गा० पुस्तकयोस्ति।