SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ स्थिरभावपरीक्षा १४५ अबाधैकाश्रयत्वे हि समानोक्तिनिवेशनात्। वर्तमाने यथैकस्मिन् क्षीणे नैकविधा धियः॥४६७॥ अवघोषणेति प्रतिज्ञा । एकाश्रयत्वम् सामानाधिकरण्यम्। अबाधम्=अविद्यमानबाधं च तदेकाश्रयत्वं चेति विग्रहः ॥ ४६६-४६७ ॥ अत्र प्रतिविधत्ते साध्येन विकलं तावदाद्ये हेतौ निदर्शनम्। हेतुत्वाद् विषयः सर्वो न हि स्वज्ञानकालिकः॥४६८॥ आद्ये हेताविति । "तज्ज्ञानत्वाभिधानतः" (तत्त्व० ४६३) इत्यत्र । प्रथममपि हि चन्द्रादिज्ञानं 'तत्कालावच्छिन्नचन्द्रादिविषयं न भवति; हेतुभूतस्यैव विषयत्वात्। [G.164] समानकालं च कार्यकारणभावानुपपत्तेः । यथोक्तम् "असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगत: । . प्राग्भाव: सर्वहेतूनां नातोऽर्थः स्वधिया सह ॥" ___(प्र० वा० २.२४६) इति ॥ ४६८॥ यदा सूर्यादिशब्दाश्च विवक्षामात्रभाविनः। दीपादौ विनिवेश्यन्ते तज्ज्ञानैर्व्यभिचारिता॥४६९॥ यदेत्यादिना पृथिवीसम्बन्धित्वेनानुपलभ्यमानत्वे सतीति सविशेषणेऽपि हेतावनैकान्तिकतेति दर्शयति ॥ ४६९॥ द्वितीयेऽपि हेतुकदम्बके जात्यादेर्धर्मिणोऽसत्त्वादेव क्षणभङ्गित्वस्यानिष्टत्वात् तत्र तदभावसाधने सिद्धसाध्यतेति दर्शयति- . - जात्यादेनि:स्वभावत्वान्नैवेष्टा क्षणभङ्गिता। __तदभावप्रसिद्धयर्थं निर्दिष्टं साधनं वृथा॥४७०॥ __ आदिशब्देन तदाश्रयाणां रूपघटादीनां तद्विषयाणां च प्रत्ययानां ग्रहणम्। एषामपि हि यथोक्तविशेषणविशिष्टानामसत्त्वमेव, तस्मात्तेषु तस्याः क्षणभङ्गिताया अभावसिद्ध्यर्थं यदुक्तं साधनं तद्वृथा, तत्र विवादाभावादिति भावः । अत्रापि सूक्ष्मेक्षिका न कृता । यदि सा क्रियते, तदा बहुतरमत्र दोषजालमवतरति। तथा हि- यदेतत् सदसदन्यतरत्वं साधनमुक्तं तत् साध्यधर्मिणि दृष्टान्तधर्मिणि चासिद्धम्, विकल्पविषयत्वादन्यतरशब्दस्य, विकल्पश्चानेकपदार्थसम्भवे सति भवति, नैकस्मिन्। न च साध्यधर्मिणि द्वयोः सदसत्त्वयोः सम्भवोऽस्ति; तस्य वस्तुरूपत्वेन सत्त्वस्यैव सम्भवात्। नापि दृष्टान्तधर्मिणि द्वयसम्भवः; तस्यावस्तुत्वेनासत्त्वस्यैव सम्भवात् । हेतुश्च व्यर्थविशेषणः। तथा हि-शब्दाभिधेयत्वादित्येवमपि तावदत्र प्रयोगो न युक्तः; अभिधेयत्ववचनादेव शब्दस्य सिद्धेः। यत् पुनः समानजातीयादिपदैर्विशेषणम्, तदतिपेलवमेव। एवमन्यदपि हेतुविशेषमनर्थकमेवेति ग्रहीतव्यम् । सर्वे चामी हेतवोऽनैकान्तिकाः, साध्यविपर्ययेऽमीषां बाधकप्रमाणानुपदर्शनात् । एतच्च पश्चादभिधास्यत एव ॥ ४७० ॥ २. पश्चादनु०- इत्यपि पाठः। १. सत्काला- पा०: स्वकाला०-गा।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy