SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १४६. तत्त्वसंग्रहे यच्चोक्तम्– “विवादविषया ये च " (तत्त्व० ४६५ ) इत्यादि, तत्राह - समानशब्दवाच्यत्वं दीपादिप्रत्ययेष्वपि । वर्त्तते व्यभिचार्येष हेतुस्तेन भवत्यतः ॥ ४७१ ॥ दीपज्ञानमिति दीपादिप्रत्ययेषु भिन्नविषयेष्वपि समानशब्दप्रवृत्तिदर्शनात्, अतस्तेन दीपादिप्रत्ययविषयेण 'समानशब्दावाच्यत्वेनैष 'समानशब्दवाच्यत्वात्' इति हेतुर्व्यभिचारी । [G.165] अथ वा काक्वा पाठ: । अतस्तेषु वर्त्तमानत्वादेव हेतुस्ते= = तव न व्यभिचारी भवति, अपि तु भवत्येवेत्यर्थः ॥ ४७१ ॥ सामानाधिकरण्यं चेति परमतमाशङ्कते - सामानाधिकरण्यं चेद् बाधितं तेषु कल्प्यते । अव्युत्थायितत्प्रत्ययसामानाधिकरण्ये सतीति हेतोर्विशेषणं दीपादिप्रत्ययैर्व्यभिचारपरिहारार्थमेव कृतम्; एषां हि दीपादिप्रत्ययानामेकविषयत्वस्य बाधित्वात् । तथा हितत्क्षणमेव दीपो दीर्घशिखो नम्रशिखश्च दीपो दीप्रतरश्चोपलभ्यते । तत्कुतो व्यभिचारिता हेतोरिति परस्य भावः । तदेतद्विशेषणमप्यसिद्धमिति दर्शयन्नाह विवक्षितेऽपि विस्पष्टा बाधैषां किं न वीक्ष्यते ! ॥ ४७२ ॥ तत्र' विवक्षितसाध्यधर्मी तत्रापि बाधा किं न वीक्ष्यते । तथा हि- चैत्रादावपि बालकुमारतरुणादिभेदेन व्यावर्त्तमानाकार एव प्रत्ययो जायते, पर्वतादौ शीतोष्णादिभेदेन, ततः स्फुटतरमेवान्यथात्वमेषां प्रतीपादिवत् प्रसिद्धम् । अन्यथा हि य एव शीतसम्बद्धः स एव यदि पश्चादुष्णसम्बद्धः स्यात्, तदाऽवस्थाद्वयेऽपि शीतोष्णयोरुपलम्भः स्यात्; तत्सम्बद्धस्वभावस्य भावे तयोरपि भावस्य प्रसङ्गापत्तेः, निगडबद्धपुरुषाकर्षणे निगडाकर्षणवदित्युक्तप्रायमेतत् । अतः सविशेषणोऽपि हेतुरसिद्धः ॥ ४७२ ॥, अनुमानबाधामप्याह विवादपदमारूढा नैकार्थविषया धियः । क्रमेणोत्पद्यमानत्वाद् विद्युद्दीपादिबुद्धिवत् ॥ ४७३ ॥ क्रमभावविरोधो हि ज्ञानेष्वेकार्थभाविषु । अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ ४७४॥ प्रयोगः - यत् क्रमभावि तत् सदा सन्निहिताविकलकारणं न भवति, यथाविद्युद्दीपादिबुद्धयः । क्रमभाविन्यश्च विवादास्पदीभूता बुद्धय इति व्यापकविरुद्धोपलब्धिः । न चानैकान्तिकत्वं हेतोः; एकवस्तुविषयत्वे सत्यविकलकारणस्य क्रमभावानुपपत्तेः । नापि कारणान्तरापेक्षा; नित्यस्य तेनानुपकार्यत्वात् । न चानुपकारिण्यपेक्षा युक्ता ; अतिप्रसङ्गात् । उपकारे वा नित्यत्वहानिप्रसङ्ग इति शतशश्चर्चितमेतत् ॥ ४७३-४७४ ॥ १. शब्दवाच्यत्वे - पा०, गा० । २. पा० गा० पुस्तकयोर्नास्ति । ३. ० साध्यधर्मे- पार, गा० । ४. स्पष्टतर- पा०. गा०1.
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy