________________
१४४
तत्त्वसंग्रहे रूपत्वाद्याश्रयाः सर्वे ये च तेषां समाश्रयाः। ये च तद्विषयाः केचिजायन्ते प्रत्ययास्तथा॥४६४॥ उत्पादान्तरं ध्वंसभाजो नैव भवन्ति ते।
प्रमेयत्वाभिधेयत्वहेतुतः खारविन्दवत्॥४६५॥ "ये रूपत्वादिसामान्याशयाः, ये च तदाश्रयाः, तद्विषयाश्च ये प्रत्यक्षानुमानोपमानशाब्दस्मृतिप्रत्यभिज्ञानार्थसिद्धदर्शनारेकविपर्ययानुव्यवसायस्वनस्वप्रान्तिकाः प्रज्ञानविशेषाः, ते सर्वे स्वात्मलाभान्तरप्रध्वंसिनो न भवन्ति, 'ज्ञेयत्वप्रमेयत्वाभिधेयत्वसदसदन्यतरत्वसदसद्व्यतिरिक्तज्ञेयविषयज्ञानानवच्छेद्यत्वाग्राह्यविषयग्रहणाग्राह्यत्वानभिधेयाभिधायकानभिधेयत्वसमानासमानजातीयद्रव्यसंयोगविभागजनितशब्दकार्यशब्दाभिधेयत्वेभ्यः, प्रागभावादिवत्"।
तत्र रूपत्वादिसामान्याश्रया रूपादयः, तेषां च रूपादीनामाश्रयास्तदाश्रयाः, के ते? घटादयः । सिद्धदर्शनम् योगिविज्ञानम्। शेषं पूर्वमेव व्याख्यातम्। सदसदन्यतरत्वं सत्त्वमसत्त्वं वा, सदसद्भयां व्यतिरिक्तस्य ज्ञेयस्याभावादेव तद्विषयज्ञानं नास्ति, तस्य चासत्त्वादेव तेनापरिच्छेद्यत्वं सिद्धम्। एवमग्राह्यविषयस्य ग्रहणस्याभावादेव तदग्राह्यत्वसिद्धिः । तथा न विदयतेऽभिधेयं यस्यासावनभिधेयः, योऽभिधायकस्तेनानभिधेयत्वमनर्थकत्वादेव सिद्धम्। समानजातीयानि द्रव्याण्यधरदशनादीनि, कृतकत्वादिसामान्यात्, असमानजातीयान्याकाशादीनि तेषां यौ मिथ:संयोगविभागौ, ताभ्यां जनितो यः प्रथमः शब्दस्तस्य परम्परया यः कार्यभूतः श्रुतिपथमवतीर्णस्तेनाभिधेयत्वम्।
तथा ह्येषामियं प्रक्रिया-प्रथमः किल शब्दः संयोगविभागयोनिस्तस्माच्छब्दान्तराणि कदम्बगोलकन्यायेन प्रादुर्भवन्ति, तेभ्यः प्रत्येकमेकैकशो मन्दतरतमन्यायेन प्रादुर्भवति। तत्र यः कर्णशष्कुलीमध्यमाकाशदेशमाप्नोति [G.163] स उपलभ्यते, नेतर इति। तदेव प्रमाण-कदम्बकं दर्शयति-रूपत्वाद्याश्रयाः सर्वेइत्यादि। प्रमेयत्वाभिधेयत्वग्रहणमुपलक्षणम्। तदन्येऽपि हेतवो द्रष्टव्याः । खे-नभसि, अरविन्दम्, आकाशकमलमिति यावत् ॥ ४६४-४६५ ॥
उद्द्योतकरस्त्वाह- "विप्रतिपन्ना अयुगपत्काला: प्रत्यया एकविषयाः, अव्युत्थायितत्प्रत्ययसामानाधिकरण्ये सति समानशब्दवाच्यत्वात्, "वर्तमानक्षणानेकपुरुषप्रत्ययवत्। तत्र व्युत्थातुम् अन्यथाभवितुं बाधकप्रमाणवशात् शीलमस्येति व्युत्थायि, न व्युत्थायि अव्युत्थायि, तेषां घटादिप्रत्ययानां सामानाधिकरण्यं तत्प्रत्ययसामानाधिकरण्यम्, अव्युत्थायि' च तत् तत्प्रत्ययसामानाधिकरण्यं चेति तथोक्तम्। अबाधितसामानाधिकरण्ये सतीत्यर्थः । इदं च विशेषणं प्रतीपादिप्रत्ययैर्व्यभिचारपरिहारार्थम्। समानशब्दवाच्यत्वं चैत्रज्ञानं चैत्रज्ञानम्" ( ) इत्यादि । तदेतद् दर्शयति
विवादविषया ये च प्रत्ययाः क्रमभाविनः।
एकार्थविषयास्तेऽपि सर्व इत्यवघोषणा॥ ४६६॥ १. ०ज्ञानावच्छेद्यत्व०= पा० गा०। २. पूर्व ६४ पृष्ठे। ३. अयुपत्काला-पा०/
५. न व्यत्यायि-जै०।
४. वर्तमानलक्षण पा०, गाल।