SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ स्थिरभावपरीक्षा १४३ तदप्यनेनैव प्रत्युक्तम्। न चाप्यत्र सन्दिग्धवस्तुसद्भावनिर्णयोऽस्ति; सदृशापरापरोत्पत्तावपि केशादिवत् प्रत्यभिज्ञानदर्शनेन सन्देहात्॥ ४५८॥ यच्चोक्तम्- "विज्ञातोऽपीतरैरर्थः" (तत्त्व० ४५५) इत्यादि, तत्राह • प्रत्यक्षेण च बाधायामनुमानादिगोचरे। नानुमानादिमानं स्याद् बाधातस्तैमिरादिवत्॥४५९॥ यस्य त्वत्पुत्रत्वादित्यादिकस्यानुमानादेर्गोचरे विषये प्रत्यक्षेण बाधा सम्भवेत्, तस्य प्रामाण्यमेव नास्ति; बाध्यमानविषयत्वेनार्थसंवादाभावात्, तैमिरिकादिज्ञानवत् । तेन “इतरैर्विज्ञातोऽप्यर्थः प्रत्यक्षेणान्यथा भवेत्' (तत्त्व०४५५)इति यदुक्तं तदसङ्गतमेव; असम्भवात् ॥ ४५९॥ यच्च प्रत्यक्षस्य ज्येष्ठत्वमुक्तं तदप्यसद्भूतमेवेति दर्शयन्नाह ____ अर्थसंवादकत्वे च समाने द्वेष्यताऽस्य का! इदमेव हि प्रमाणानां प्रमाणत्वम्, यदुतार्थप्रापणसामर्थ्यम् । तच्चेत् सर्वप्रमाणानामभ्युपगम्यते, तत्केनास्य प्रत्यक्षज्येष्ठता भवेत् ! अथापि स्यात्- प्रत्यक्षस्यैवार्थसंवादकत्वम्, नानुमानादेः? इत्याह___.. तदभावे तु नैव स्यात् प्रमाणमनुमादिकम्॥४६०॥ तस्य अर्थादिसंवादकत्वस्य अभावे सति नैव प्रमाणमनुमानादि स्यात्; अर्थाविसंवादकत्वनिबन्धनत्वात् प्रमाणव्यवहारस्य, तस्य चात्र भावात् ॥ ४६० ।। .. नन्वनेनेत्यादिना भाविविक्तोक्तानि प्रमाणान्याशङ्कते नन्वनेनानुमानेन . .बाध्यते . सर्वहेतुषु। . व्याप्तिः सर्वोपसंहारा प्रतिज्ञार्थस्य वा क्षतिः॥४६१॥ [G.162] किं तदनुमानम्? इत्याह- . ..विवक्षितार्कचन्द्रादिविषयं यत् प्रवर्त्तते। ज्ञानं तत्कालसम्बद्धसूर्यादिविषयं परम्॥४६२॥ . पार्थिवाविषयत्वे हि तज्ज्ञानत्वाभिधानतः। तद्यथा प्रथमं ज्ञानं तत्कालार्कादिगोचरम्॥४६३॥ तदुक्तम्-विमत्यधिकरणभावापन्नानि चन्द्रार्कग्रहनक्षत्रादिज्ञानानि विवक्षितचन्द्रार्कग्रहनक्षत्रतारकादिविषयं यद्देवदत्तादिविज्ञानं तत्कालावच्छिन्नचन्द्रार्कग्रहनक्षत्रतारकादिविषयाण्येव; पृथ्वीसम्बन्धित्वेनानुपलभ्यमानत्वे सति चन्द्रार्कग्रहनक्षत्रतारकादिज्ञानशब्दवाच्यत्वात्, प्रथमकालभाविदेवदत्ततारकादिज्ञानवदिति । विवक्षितार्कचन्द्रादिविषयमिति । तैजसद्रव्यविषयम्। पृथिवीसम्बन्धित्वेनानुपलभ्यमानत्वे सतीति विशेषणं चित्रादिगतादित्यादिविषयैर्जानैर्व्यभिचारपरिहारार्थम्। परमिति। तस्मादन्यत् । अतत्कालमित्यर्थः ।। ४६२-४६३ ॥ इदमपरं तदीयमेव प्रमाणम्१. ०र्थप्रमाणसामर्थ्यम्- पाल, गा०।। २. स्वकाला०-जै०। ३. ग्रहतारकादि०- पा०, गा०। ४. विवक्षितार्कादि०-०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy