________________
१४२
तत्त्वसंग्रहे सिद्धम्, तथाप्युत्तरकालं तत्कार्येण क्रमिणा क्रमस्यानुमानत; सिद्धरन्यथात्वं सिद्धमेव, तत् कथं क्षणभङ्गित्वं बाधते?-इत्याशङ्कयाह- .
विज्ञातोऽपीतरैरर्थः प्रत्यक्षेणान्यथा भवेत्।
प्रत्यक्षेणावरुद्धे तु नेतरोत्पत्तिसम्भवः ॥ ४५५॥ . इतरैरिति अनुमानादिभिः । यथा किल-सरे श्यामः; तत्पुत्रत्वाद्, दृश्यमानतत्पुत्रवदित्यादि। प्रत्यक्षेणान्यथा भवेदिति। प्रत्यक्षेण करणभूतेन, अन्यथा अनुमानादिप्रमिताकारविपरीतो भवेदित्यर्थः। अवरुद्धे इति। विषयीकृते इत्यर्थः। नेतरोत्पत्तिसम्भव इति। प्रत्यक्षादितरस्यानुमानादेनैव बाधकत्वेनोत्पत्तिः सम्भवतीत्यर्थः ॥ ४५५॥ . कस्माद् ? इत्याह
को हि ज्येष्ठप्रमाणेन दृढेनार्थेऽवधारिते।
दुर्बलैरितरैः पश्चादध्यवस्येद् विपर्ययम् ॥४५६॥ . युक्तं हि यदनुमानप्रसिद्धस्यार्थस्य प्रत्यक्षेणान्यथात्वं क्रियत इति; तस्य सर्वप्रमाणज्येष्ठत्वात्। न तु प्रत्यक्षप्रसिद्धस्यान्यथात्वमनुमानादयः कर्तुमीहन्ते; तेषां दुर्बलत्वात् । दृढेनॆत। संशयविपर्ययाभ्यां रहितेन। विपर्ययमिति। अन्यथात्वम्॥ ४५६॥ नन्वित्यादिना प्रतिविधत्ते
नन्विदानीन्तनास्तित्वं यदि भिन्नं त्वयेष्यते।
पूर्वभावात् तदा भेदस्त्वयैव प्रतिपादितः ॥ ४५७॥ यत्तदिदानीन्तनमस्तित्वं प्रत्यभिज्ञानस्य विषयः, किं तत् पूर्वप्रत्यक्षगृहीतादस्तित्वाद्भिन्नम्? आहोस्वित्तदेव? यदि भिन्नम्; तदा स्ववचनेनैव भेदस्य प्रतिपादितत्वादभ्युपेतहानिर्भवतो भवेत् । अस्माकं पुनरिष्टसिद्धिः ।। ४५७ ।। .
अनन्यत्वेऽपि सत्त्वस्य कथं पूर्वधियाऽगतम्।
तस्याऽगतौ हि वस्त्वेव नोपलब्धं प्रसज्यते॥४५८॥ अथानन्यदिति पक्षः, तदा कथं पूर्वधिया तदगतं येनोच्येत-"न हि पूर्वधिया [G.161) गतम्" (तत्त्व० ४५२) इति।
स्यादेतत्-यथा क्षणिकत्वं शब्दादेरव्यतिरिक्तमपि सत् तद्ग्रहणे सत्यप्यगृहीतमुच्यते, तद्वदिदमपि भविष्यतीति? तदयुक्तम्; न हि शब्दे धर्मिणि गृहीतेऽपि तदव्यतिरेकि क्षणिकत्वमगृहीतमिति व्यवस्थाप्यते, किन्तु गृहीतमपि तनिश्चयोत्पत्तिकारणाभावादनिश्चितमित्यभिधीयते। न ह्यनुभवमात्रादेव निश्चयो भवति; तस्यार्थित्वाभ्याससाद्गुण्यादिसापेक्षत्वात्। न चैवं भवतः सम्भवति; पूर्वप्रत्यक्षस्यापि व्यवसायात्मकत्वात्। तेन च वस्तुरूपे निश्चीयमाने तदव्यतिरिक्तमिदानीन्तनमस्तित्वं निश्चितमेव। तदनिश्चये वस्तुस्वरूपस्यापि तद्वदेवानिश्चितरूपाव्यतिरेकादनिश्चितत्वप्रसङ्गः।
येऽप्याहुः- "सन्दिग्धवस्तुनिर्णयनिबन्धं प्रत्यभिज्ञाने प्रामाण्यम्" ( ) इति; १. बाध्यते-पा०, गा०।
२. पा०. गा० पुस्तकयांनास्ति। ३. प्रत्यक्षादिरतस्या०- ज० ।
४. किं- पा०: किं तर्हि-गा० ।