________________
स्थिरभावपरीक्षा
१४१
वज्रादेरनपरापेक्षस्य तद्विषयं प्रत्यभिज्ञानमविकलकारणत्वात् पूर्वमेव भवेत्, न च भवति, तस्मादनित्यत्वमस्य सिद्धम् । ततश्च भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेर्मायागोलकविज्ञानवद् भ्रान्तमिदमित्यविकलमेतत् । अत एवाबाधितविषयत्वमप्यसिद्धम्; यथोक्ताद् भ्रान्तत्वप्रसाधकादेव हेर्तोर्बाधितविषयत्वात् ॥ ४४९-४५०॥
इतश्च गृहीतग्रहणान्नास्याः प्रामाण्यम्, यथा स्मृतेरिति दर्शयन्नाह - निष्पादितक्रिये चार्थे प्रवृत्तेः स्मरणादिवत् ।
न प्रमाणमिदं युक्तं करणार्थविहानितः ॥ ४५१॥
यदेव हि प्रमितिक्रियासिद्धौ प्रकृष्टमुपकरणं तदेव साधकतमं कारकं प्रमाण-[G.159] मुच्यते । यदि च प्रत्यभिज्ञा पूर्वप्रमाणगृहीतार्थविषया स्यात्, तदा निष्पन्नप्रमितिक्रियेऽर्थे प्रवृत्त्याऽसाधकतमत्वात् कथमिव प्रमाणतामश्नुवीत; अन्यथा हि स्मृतेरपि प्रामाण्यं स्यात् ! न चानधिगतप्रमाणभावा सती बाधकत्वाय कल्पते; अतिप्रसङ्गात्। स्यादेतत् — मा भूदस्याः पृथक् प्रामाण्यम्, तथाप्यनया पूर्वार्थविषयतया क्षणभङ्गित्वं बाध्यत एवेति ? तदसम्यक्; न ह्यस्याः परमार्थविषयत्वमस्ति, 'साभिजल्पत्वात् । केवलमविषयाऽपि सती विभ्रमबलात् पूर्वदृष्टार्थाध्यवसायिनी समुत्पद्यते - इत्यध्यवसायवशात् पूर्वदृष्टार्थविषयेत्युच्यते, तत् कुतोऽस्मात् प्रत्यभिज्ञानात् प्रकृतिभ्रान्तात् क्षणभङ्गनिराक्रिया सिध्येत् ! ॥ ४५१ ॥
इदानीन्तनमित्यादिना, कुमारिलमतेन गृहीतग्राहित्वस्यासिद्धिमुद्भावयति— इदानीन्तनमस्तित्वं न हि पूर्वधिया गतम् ।
तदस्त्यस्य विशेषश्चेत् स्मरणे यो न विद्यते ॥ ४५२ ॥
स ह्याह-न हि पूर्वप्रत्यक्षेणार्थस्येदानीन्तनमस्तित्वमधिगतम्; तस्य स एवायमित्येवमाकारोपग्राहेणानुत्पत्तेः। तस्मादस्य प्रत्यभिज्ञानस्य स्मरणादस्ति विशेषः । कथम् ? इत्याहपूर्वप्रमितमात्रे हि जायते स इति स्मृतिः ।
स एवायमितीयं तु प्रत्यभिज्ञाऽतिरेकिणी ॥ ४५३ ॥
स इति हि पूर्वज्ञानाकारोपग्रहेणैव स्मृतिः प्रवर्त्तते । प्रत्यभिज्ञा तु 'अयम्' इत्येवमतिरिक्तमप्यर्थाकारं गृह्णातीति जायते इति स्मृतेः सकाशादतिरेकिणी, विशिष्टेत्यर्थः । तस्माद्यौ संशयविपर्ययौ तौ बाधित्वा प्रत्यभिज्ञा प्रमाणतां लभेत ॥ ४५२-४५३ ॥ कस्मात्तौ बाधते ? - इत्यत्र कारणमाह
ज्ञाते चाविद्यमानत्वाद् यौ संशयविपर्ययौ ।
बाधित्वा तौ लभेतैव प्रत्यभिज्ञा प्रमाणताम् ॥ ४५४ ॥ ज्ञातेऽर्थे तयोरविद्यमानत्वाद्, बहलवह्निशिखाकलापपरिगत इव देशे शीतस्य ॥ ४५४ ॥ ननु यथानुमानप्रसिद्धस्याप्यर्थस्य पुत्रादिगतश्यामत्वादेः पुनः कालान्तरेण [G.160] प्रत्यक्षेण "बाधमानस्यान्यथात्वं भवति, तथाऽत्रापि यदि नाम प्रत्यभिज्ञातो नित्यत्वमर्थस्य
१. माभिजल्पत्वात् — पा०; साभि (मति) जल्पत्वात् गा० । ३- ३. गृह्णाति पा०, गा० ।
५. बाध्यमान०- पा०, गा० ।
२. केवलम (ति) विषयापि गा० ।
४. लभते - जै० ।
६. प्रत्यभिज्ञानतो- गा० ।