________________
१४०
तत्त्वसंग्रहे तथा हि-स एवायमिति गिरितनुवज्रादिष्वक्षव्यापारानन्तरं प्रत्यभिज्ञानाख्यं प्रत्यक्ष प्रमाणं भावानां क्षणभङ्ग निराकुर्वदुदेति । यद्यपि नूनं पुनर्जातनखकेशतृणादिषु प्रत्यभिज्ञानं दृष्टम्, तथा पि न वज्रादिविषययोः प्रत्यभिज्ञानयोरप्रामाण्यम्; अबाधितविषयत्वात्। अत एवाह-निष्प्रकम्पमबाधितमिति। न हि तिमिरोपहतलोचनोपजनितं केशविज्ञानमप्रमाणमुपलब्धमित्येतावता स्वच्छनेत्रजनितमपि सत्यकेशविषयं चक्षुर्विज्ञानमप्रमाणमिति युक्तं स्वच्छचेतसोऽभिधातुमिति भावः । तत्र निष्प्रकम्पत्वेनासंशयरूपतामाह; स एवायम्? अथान्यः?इत्येवंविधस्य संशयस्याभावात् । अबाधितमित्यनेनाविपर्यस्तत्वम्॥ ४४४-४४५ ॥ न खल्वित्यादिना प्रतिविधत्ते
न खलु प्रत्यभिज्ञानं प्रत्यक्षमुपपद्यते। ... वस्तुरूपमनिर्देश्यं साभिलापं च तद्यतः ॥४४६॥ भ्रान्तं च प्रत्यभिज्ञानं प्रत्यक्षं तद्विलक्षणम्। ...
अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः ॥ ४४७n . [G.158] तत्र प्रत्यक्षत्वं तावदसिद्धमस्याः। तथा हि-वस्तुत्वलक्षणस्यानन्वयित्वेनाशक्यसमयत्वात् तद्ग्राहि ज्ञानं मनसि जल्पमेव; अवगृहीतसम्बन्धस्यार्थस्य शब्देन संयोज्य ग्रहणासम्भवात् । अतोऽवश्यं प्रत्यक्षेण सता स्वलक्षणविषयत्वात् कल्पनापोढेन भवितव्यम, प्रमाणत्वाच्च भ्रान्तेन, ततश्च "प्रत्यक्षं कल्पनापोढमभ्रान्तम्" (न्या०बि०१.४) इति न्यायानुयातमिदं प्रत्यक्षलक्षणमाचक्षते कुशलाः। न च प्रत्यभिज्ञानं कल्पनापोढम्, स एवायमित्येवमभिजल्पाकारतया संवेद्यमानत्वात्। नाप्यभ्रान्तम्; भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेः ॥ ४४६-४४७॥ कथम्? इत्याह
पूर्वं 'संविदिताकारगोचरं चेदिदं भवेत्।
जायेत पूर्वमेवेदं तादात् पूर्वबुद्धिवत् ॥४४८॥ यदि हि पूर्वोपलब्धार्थविषयमिदमभविष्यत्, तदा पूर्वमेवोदपत्स्यत'; तद्विषयत्वेनाविकलकारणत्वात्, पूर्वज्ञानवत् । तादादिति। स पूर्वसंविदितो भावोऽर्थो विषयोऽस्येति तदर्थम्, तद्भावस्तादर्थ्यम्॥ ४४८॥
न चैवं तेन नैवेदं तदर्थग्राहकं मतम्। तज्ज्ञानकाल उत्पादाद् विषयान्तरबुद्धिवत् ॥४४९॥ अभेदाध्यवसायेन भिन्नरूपेऽपि वृत्तितः।
मायागोलकविज्ञानमिव भ्रान्तमिदं स्थितम् ॥४५०॥ न चैवमिति प्रसङ्गविपर्ययमाह । प्रयोगा:-यद्यस्मिन्नविकलेऽपि सति न भवति न तत्तद्विषयम्, यथा रूपेऽविकलेऽपि सति तत्राभवच्छोत्रविज्ञानम्, 'न भवत्यविकलेऽपि वज्रादौ तद्विज्ञानवेलायां प्रत्यभिज्ञानमिति व्यापकानुपलब्धेः। तदेवं नित्यत्वे सति वज्रादेरनपरापेक्षस्य तद्विषयं प्रत्यभिज्ञानमिति व्यापकानुपलब्धः। तदेवं नित्यवे सति १. ०मन्तर्जल्पा०-पा०, गा० ।
. २. संविहिता०-गा। . ३. ०दशिष्यत-पा०, गा०।
४. पा० गा० षस्कयो स्ति।