SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १३९ स्थिरभावपरीक्षा तस्यान्तेऽपि न भावोऽस्ति तथा जन्म तु वार्यते ॥४३९॥ विलक्षणकपालादेरुत्पादस्तु सहेतुकः । सोऽप्यादौ जायते नैव तदा हेतोरसम्भवात् ॥ ४४०॥ द्विविधो हि विनाशः-सन्तानोच्छेदरूपः, विसदृशसन्तानोत्पादलक्षणश्च । तत्र यदि सन्तानोच्छेदरूपं विनाशमधिकृत्योच्यते, तदयुक्तम्, न हि तस्यान्तेऽपि भावोऽस्तीति, नीरूपत्वात्, तत्किमुच्यते-"अन्तेऽपि स कथं भवेत्" (तत्त्व० ४३३) इति! तस्मात्तस्य कदाचिदपि भवनानभ्युपगमादादावन्ते च यद्भावाभावप्रसञ्जनं तदसङ्गतमेव। केवलम्, तथा सदृशक्षणान्तरप्रतिसन्धानेन, जन्म-उत्पादः, तत्र प्रतिषिध्यते। घटादेरुच्छेदो भवति', स एव न भवतीत्यर्थः । न तु तत्र किञ्चिद्विधीयते। अथ विसदृशक्षणोत्पादलक्षणो द्वितीयो विनाशोऽभिप्रेत:? तस्याहेतुकत्वमसिद्धम्; वस्तुतया तस्य मुद्गरादिकारणबलेनोत्पादनाभ्युपगामात्। अत एवासाबादौ न जायते; स्वहेतोर्मुद्रादेस्तदानीमभावात् ॥ ४३९-४४० ॥ विरोधव्यवस्थासमर्थनार्थमाह- . द्विविधाः क्षणिका भावाः केचिद्धासस्य हेतवः। शीतादेरेव बह्नयाद्या अपरे न तथाविधाः ॥४४१॥ अट्टष्टतत्त्वो लोकस्तु विरोधमभिमन्यते। कार्यकारणभावेऽपि प्रथमोक्तेष्वनेकधा ॥४४२॥ बाध्यबाधकभावस्तु 'वस्तूनां नैव तात्त्विकः। विद्यते तत . एवोक्तं विरोधगतिरित्यपि ॥४४३॥ केचिद्धि भावा: केषाञ्चिन्मन्दतरतमक्षणोत्पत्तिक्रमेण यो ह्रासस्तत्र हेतवो [G.157] भवन्ति, यथा-वढ्यादयः शीतादीनाम्। अपरे न तथाविधाः नापकर्षहेतवः, तद्यथा-त एव वढ्यादयो धूमादीनाम्। तत्र प्रथमोक्तेषु हासहेतुषु कार्यकारणभावेऽपि सत्यज्ञानतिमिरतिरोधीयमानज्ञानालोको लोको विरुद्धत्वमभिमन्यते। अनेकति।शीतस्याग्निर्विरुद्धः, प्रदीपस्य वायुः, आलोकोऽन्धकारस्येत्यादिना भेदेन। न तु वस्तूनां परमार्थतः कश्चिद्वाध्यबाधकभावोऽस्ति; सतः सर्वात्मना निष्पत्तेः, स्वभावान्यथात्वस्य कर्तुमशक्यत्वात्, तस्य व्यतिरेकाव्यतिरेकविकल्पे संत्युभयथापि करणासम्भवात्। असतोऽप्यवस्तुत्वादेव न किञ्चित् क्रियतेइत्युभयथाप्यकिञ्चित्करो विरोधी । अत एवाविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिरित्याचार्येणोक्तम्। विरोधगतिः= विरोधव्यवसायः, न तु विरोधस्तात्त्विक इति भावः । अपिशब्दश्चार्थे, भिन्नक्रमश्च, एवेत्यस्यान्तरं द्रष्टव्यः ।। ४४१-४४३॥ ननु चेत्यादिना जैमिनीयादिमतेन क्षणभङ्गप्रतिज्ञायाः प्रत्यक्षबाधितत्वमाशङ्कते ननु च प्रत्यभिज्ञानं स एवेत्युपजायते। .. अक्षव्यापारसद्भावे निष्प्रकम्पमबाधितम् ॥४४४॥ ततः प्रत्यक्षबाधेयं दुर्वारा सर्वहेतुषु। क्षणभङ्गप्रसिद्ध्यर्थमुपात्तेषु प्रसज्यते ?॥ ४४५ ॥ १. इतोऽग्रे गा० सम्पादक: 'इत्यस्य' इति पाठमीप्सति। २. वस्तुनो- पा०, गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy