________________
१३८
तत्त्वसंग्रहे
त्वम् - एकार्थक्रियाकारितया, परस्परोपकारितया च । तत्र अव्यवहितकार्यपेक्षया' एकार्थ[G.155] क्रियाकारित्वमेव, न परस्परोपकारित्वम्; एकस्मिन् क्षणे निर्विभागतया विशेषस्याधातुमशक्यत्वात्। व्यवहितकार्यापेक्षया तु परस्परत उत्तरविशिष्टक्षणोत्पत्तेः, सन्तानापेक्षया परस्परोपकारेण व्यवहितकार्यजनकत्वात् परस्परोपकारित्वलक्षणं सहकारित्वम् । तत्र प्रथमावस्थाभाविनां यद्यपि परस्परतो विशेषो नास्ति, तथापि तेषां सहकारित्वमविरुद्धमेव; एकार्थक्रियाकारित्वात् । नापि ते समनन्तरविशिष्टक्षणोत्पादानं प्रत्यविशिष्टाः ; पूर्वकेभ्य एव स्वहेतुप्रत्ययेभ्यस्तथाविधोत्तरकार्यकलापोत्पादनं प्रति प्रत्येकं समर्थानामुत्पन्नत्वात् । तेषामपि हेतुप्रत्ययानामपरेभ्यः स्वहेतुप्रत्ययेभ्यः, तेषामप्यपरेभ्यः - इत्यादेर्हेतुपरम्पराया इंष्टत्वाद् अनवस्थाऽप्यदुष्टैव। प्रत्येकं च सामर्थ्येऽपि नापरेषां वैयर्थ्यम्; स्वहेतुबलेन तेषां तथोत्पन्नत्वात् । नापि तेषां पृथग्भावः सम्भवति; तथाविधकारणाभावात् । नापि पश्चात्; क्षणिकत्वात् । कलापोत्पादकाः पृथगिति । प्रत्येकं द्वितीयक्षणभाविकलापोत्पादनसमर्था इत्यर्थः । स्वोपादानग्रहणं प्रथमावस्थाभाविसहकारिकृतोपयोगनिषेधपरं द्रष्टव्यम् । न तु स्वोपादानमात्र भावि किञ्चित् कार्य सम्भवति; सामग्रीतः सर्वस्य सम्भवात् । यथोक्तम् – " न किञ्चिदेकमेकस्मात् सामग्र्याः सर्वसम्भवः " ( प्र० वा० २.५३६ ) इति ॥ ४३५ -५३६ ॥
ततः प्रभृति ये जाता विशेषास्ते तु तत्कृताः । तद्रूपप्रकृतित्वेन तेषां तदुपयोगिनाम् ॥ ४३७॥
ततः प्रभृर्तीति द्वितीयक्षणोत्तरकालमारभ्येत्यर्थः । तत्कृताइति सहकारिकृतविशेषकारणकृताः । कस्मात् ? तद्रूपप्रकृतित्वात्तेषाम् — तद्रूपा = विशिष्टसहकारिकृतविशेषकारणजन्या, प्रकृतिः = स्वभावो येषां ते तथोक्ताः । तेषां तदुपयोगिनामिति । तद्रूपप्रकृतित्वादिति संम्बन्धनीयम्। ‘`तदुपयोगिनाम्' इत्यत्र चकारों लुप्तनिर्दिष्टः, तेनायमर्थो भवति – तत्र तृतीयावस्थाभाविनि कार्ये ये द्वितीयक्षणभाविनो विशेषा उपयुज्यन्ते कारणभावेन, तेषां च तदुपयोगिनां सहकारिकृतविशेषकारणजन्यकार्योत्पादनयोग्यप्रकृतित्वात् तृतीयादिक्षणभाविनो विशेषास्तत्कृता भवन्तीति ॥ ४३७ ॥
अयमपि नियमः कथमेषां भवति ? इत्याह
-
नियताचिन्त्यशक्तीनि वस्तूनीह प्रतिक्षणम् ।
भवन्ति नानुयोज्यानि दहने दाहशक्तिवत् ॥ ४३८ ॥
[G.156] न हि भावानां स्वभावाः पर्यनुयोगमर्हन्ति तेषां स्वहेतुप्रत्ययपरम्परासमायातत्वात् स्वभावभेदस्य, यथा अग्नेर्दाहकत्वम् । यस्मादेते परापरप्रत्ययोपयोगेन प्रतिक्षणं भिन्नशक्तयः समुत्पद्यन्ते, अतो यद्यप्येते कुतश्चित् समानरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः । तेन किञ्चिदेव कस्यचित् कारणम्, न सर्वः सर्वस्येति यत्किञ्चिदेतत् । भवन्तीति । जायन्त इत्यर्थः ॥ ४३८ ॥
यदप्युक्तम्- "विनाशो यद्यहेतुः स्यात् " ( तत्त्व० ४३३ ) इति, तत्राहसन्तानोच्छेदरूपस्तु विनाशो यो न हेतुमान् ।
२. तदुपयोगिनम् — गा० ।
१. व्यवहित०- पा० ।