SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ स्थिरभावपरीक्षा १३७ विनाशो' यद्यहेतुः स्यादादावेव भवेदयम्। सम्भवो.यदि नास्यादावन्तेऽपि स कथं भवेत्॥४३३॥ स्वहेतोर्यदि भावानामिष्यतेऽन्यन्न कारणम्। * विनाशस्य कथं तेषां वचिदेव विरुद्धता॥४३४॥ स ह्याह- क्षणिकत्वेऽपि भावानां क्रमयोगपद्याभ्यामर्थक्रियाविरोध एव; यतस्ते स्वयं समर्था भवेयुः? असमर्था वा? यदि समर्थाः, तदा सहकारिकारणं नापेक्षेरन्; न हि समर्थस्य काचिदपेक्षा युक्ता। अथासमर्थाः, तथापि तेषां तदपेक्षा सुतरामयुक्तिमती। तथा हि-ये प्रथमकलापान्तश्चरिष्णवस्ते न परस्परतो विशेषमाप्नुवन्ति; उत्पन्नानुत्पन्नावस्थायाः सदसत्वेनानुपकार्योपकारकत्वात्। ततश्च प्रथमावस्थायां तेषां निर्विशिष्टत्वात् तेभ्यो [G.154] विशिष्टक्षणान्तरोत्पादो न स्यात्। निर्विशेषेभ्यश्च तेभ्यः क्षणान्तरस्य विशिष्टस्योत्पत्तौ कार्यमपि किं नोत्पद्येत। न चापि पूर्वकात् कलापाद्विशिष्टात् ते समुत्पन्ना इति युक्तं वक्तुम्; तत्कलापान्तर्गतानामप्यत एव परस्परतो विशेषाभावात्। तेषामप्यन्यतो विशेषोत्पत्तौ सत्यामनवस्था स्यात्। तदेवं विशेषाभावात् कथमविशिष्टात् कारणकलापात् कार्यमुत्पद्येत! अविशिष्टाच्चोत्पत्तौ सर्वं सर्वस्माद् भवेत्। ततश्च क्रमयोगपद्याभ्यामेवमर्थक्रियाविरोधेऽपि यथैते भवन्त्येवार्थक्रियाकारिणः, तथा नित्या अपि सन्तो भविष्यन्तीति व्यर्थस्तेषां क्षणिकताश्रयः। तेन सत्त्वादिति हेतुरनैकान्तिक इति भावः।। __न चापि सन्ततेरवस्थाविशेषप्राप्तायाः कार्योत्पत्तिर्भविष्यति न सर्वदेति वक्तुं युक्तम्; यथोक्तया नीत्या सहकारिकृतस्य विशेषस्याभावात् सर्वदैव सन्ततेरविशिष्टत्वात्। न चापि स्वोपादानकारणमात्रप्रतिबद्धो विशेषः सन्ततिरिति युक्तं वक्तुम्; दृष्टविरोधात्। तथा हिसहकारिणामुपायापाययोः कार्यव्यक्तिविरामौ दृष्टौ । यदि च स्वोपादानमात्रप्रतिबद्धो विशेषः स्यात्, तदा सहकारिनिरपेक्षस्यैव जनकत्वं भवेत्। अपि च-यथोक्तया नीत्या सन्ततः सर्वदा निर्विशिष्टत्वात्, घटादीनां कपालादिविशेषोत्पत्त्यसम्भवात् सजातीयक्षणसन्तानोच्छेदलक्षणो विनाशो यदि निर्हेतुक: स्यात्, तदा निरपेक्षत्वात् प्रागेव भवेत्। अथादौ न भवेत्, पश्चादपि न भवेत; प्राग्वद्विशेषाभावात्। किञ्च-यदि भावानां विनाशं प्रति स्वहेतुव्यतिरेकेणान्यत् सन्तानान्तरं कारणं नेष्यते, तदाऽनलादयः शीतादीनां कथं विरोधिनो भवेयुः; न ह्यकिञ्चित्करो विरोधी युक्तः; अतिप्रसङ्गापत्तेः। एवं हि सर्वः सर्वस्य विरोधी प्रसज्येत । ततश्च विरोधद्वारेणानुपलब्धिप्रयोगः, प्राणातिपातादिव्यवस्थानं चातिदुर्घटमिति भावः ॥ ४२८-४३४॥ उच्यत इत्यादिना प्रतिविधत्ते उच्यते प्रथमावस्था नैवान्योऽन्योपकारिणः। एकार्थक्रियया त्वेत भवन्ति सहकारिणः ॥४३५॥ अन्योऽन्यानुपकारेऽपि नाविशिष्टा इमे यतः। स्वोपादानबलोद्भूताः कलापोत्पादकाः पृथक् ॥४३६॥ समर्थादेव हि कार्योत्पत्तिः, न च सहकारिवैयर्थ्यम् । तथा हि-द्विविधं सहकारि१. विनाशे-पा०, गा०। २. स्वोपादानकारणमात-पा०, गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy