________________
१३६
तत्त्वसंग्रहे षण्ढस्य रूपे वैरूप्ये कामिन्याः किं परीक्षया!॥"
(प्र० वा० ३.२१०-११) इति। अत एव कथमिदं गम्यते-तत्क्षणिकमित्यादिपर्यनुयोगः प्रतिवादिना क्रियमाणो विफल एव; तस्य वादिना क्षणिकत्वेन साधयितुमनिष्टत्वात् ॥ ४२२-४२४॥
इदानीं परः 'अर्थक्रियासामर्थ्यमपि वस्तुलक्षणमयुक्तम्; अतिव्यापित्वात्' इति दर्शयति
ननु चार्थक्रियाशक्ता नभस्तामरसादयः।
स्वज्ञानहेतुभावेन न चैते सन्ति भाविकाः ॥ ४२५॥ तथा हि-नभस्तामरसादयः 'नभस्तामरसं नभस्तामरसम्' इत्यादिज्ञानोत्पादलक्षणायामर्थक्रियायां समर्थाः, न च ते परमार्थतः सन्ति, अतोऽतिव्यापीदं लक्षणम्-शक्तिर्भावलक्षणमिति ॥ ४२५ ॥
अत्र परिहारमाह___ निरालम्बनमेवेदमम्बराम्भोरुहादिषु ।।
तज्जल्पवासनामात्रभावि ज्ञानं प्रवर्तते ॥४२६ ॥ असिद्धमाकाशाम्भोरुहादीनामर्थक्रियासामर्थ्यम्; तद्विकल्पानां स्वविकल्पवासनापरिपाकमात्रेणैवोत्पत्तेर्निरालम्बनत्वात् ॥ ४२६ ॥ . [G.153) अथाकाशाम्भोरुहादिभ्य उत्पत्तौ किं बाधकं प्रमाणम् ? इत्याह
अभावकारणत्वे तु नैरन्तर्येण सम्भवेत्।
नाभावोऽपेक्षते किञ्चिनिर्विशेषतया सदा ॥४२७॥ अभावो नभस्तामरसादि कारणं यस्य तत्तथोक्तम्, तद्भावस्तत्त्वम्, तस्मिन् सति तन्नभस्तामरसादिज्ञानं सर्वदैव भवेत् उत्पद्येत; नित्यसन्निहिताविकलकारणत्वात् । न चापि तस्य परैरनुपकार्यस्य तदपेक्षा युक्ता, येन सहकारिवैकल्यात् कदाचिज्जनयेदिति स्यात् ॥ ४२७ ।। क्षणिकेष्वपीत्यादिना . भदन्तयोगसेनमतमाशङ्कते- ..
क्षणिकेष्वपि भावेषु ननु चार्थक्रिया कथम्। विशेषाधायिनोऽन्योन्यं न ह्याद्याः सहकारिणः ॥४२८॥ जातौ सर्वात्मना सिद्धेरजातौ वस्त्वभावतः । निर्विशेषाद्विशेषस्य भावे कार्यं न किं भवेत् ॥ ४२९॥ न चान्यतो विशिष्टास्ते तुल्यपर्यनुयोगतः। सहकारिकलापानामनवस्था च ते भवेत् ॥ ४३०॥ क्रमेण युगपच्चापि यतस्तेऽर्थक्रियाकृतः। न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रयः ॥ ४३१॥ सहकारिकृतश्चैवं यदा नातिशयः कचित्। सर्वदा निर्विशेषैव तथा सन्ततिरिष्यते ॥४३२॥