________________
स्थिरभावपरीक्षा
केचिदाहु:- यद्वस्त्वन्तशः सर्वज्ञस्यापि न ज्ञानमुत्पादयति तस्य तादृशस्यास्तियां किं बाधकं प्रमाणम्, यत इयं व्याप्तिः सर्वोपसंहारेण सिध्येत् -'यत्सत्तत्सर्वं क्षणिकम्' इति । न च तदपरिज्ञाने सर्वज्ञत्वहानि: ; तस्य ज्ञेयेष्वेवाधिकारात् । ज्ञानयोग्यस्य हि वस्तुनोऽपरिज्ञाने स्यादसर्वज्ञः, तत्तु न र्ज्ञेयम्; ज्ञानोत्पादनेऽपि तस्यायोग्यत्वात् " ( ) इति । तान् प्रत्याहसर्वश्चार्थविचारादिव्यापारोऽर्थक्रियार्थिनः
1
निराकुलधियो युक्तो नोन्मत्तकतया पुनः ॥ ४१९॥ तत्र यन्नाम केषाञ्चित् कथञ्चिदुपयुज्यते ।
क्वचित् कदाचित् तत्रैव युक्ता सत्ताव्यवस्थितिः ॥ ४२० ॥ तद्रूपस्यैव चार्थस्य क्षणिकत्वं प्रसाध्यते । व्याप्तिः सर्वोपसंहारा तस्मिन्नेवाभिधीयते ॥ ४२१ ॥
अर्थस्य हि वस्तुमात्रस्य योऽयमस्तित्वनास्तित्वेन विचारः, स सर्वोऽर्थक्रियार्थिनः, न व्यसनितया; अन्यथा ह्यन्मत्तः स्यात् । तेन यदेव पदार्थजातं केषाञ्चिदर्थक्रियार्थिनां कथञ्चित् साक्षात् पारम्पर्येण वा क्वचिद्देशे कदाचित् काल उपयुज्यते, तत्रैव वस्तुव्यवस्था युक्ता प्रेक्षावतः, न त्वन्यत्रः, निबन्धनाभावात्, निष्प्रयोजनत्वादिति भावः।
१३५
आदिग्रहणेनार्थविशेषाणां दहनसलिलादीनां विचारो गृह्यते । ततश्च प्रेक्षापूर्वकारिणां यदेवार्थक्रियाकारि तदेव वस्त्विति यदेतत्प्रसिद्धम्, तस्यैव तद्रूपस्य = अर्थक्रियाकारिरूपस्यास्माभिः क्षणिकत्वं प्रसाध्यते; यतोऽर्थक्रियासामर्थ्यलक्षणस्य हेतुत्वेनाभीष्टत्वान्नास्ति व्यभिचारः; तस्यैवम्भूतस्य हेतोः सर्वोपसंहारात् साध्येन व्याप्तिसिद्धेः । या हि पक्षसपक्ष-विभागमकृत्वा सामान्येन हेतोर्व्याप्तिः प्रदर्श्यते, सा.सर्वोपसंहारा व्याप्तिः ॥ ४१९-४२१ ॥ [G.152] अथार्थक्रियासामर्थ्यशून्यस्यापि कंस्माद् वस्तुत्वं नेष्यते ? इत्याहनिःशेषशक्तिशून्यं तु यद् वन्ध्यासुतसन्निभम्। सर्वज्ञचेतसोऽप्येति हेतुत्वं न कदाचन ॥ ४२२ ॥ क्रियते तत्र नैवेदं कार्यरूपाद्यदृष्टितः । निर्निबन्धनमस्तित्वव्यवस्थानं विचक्षणैः ॥ ४२३ ॥ 'नं तस्मिन् साधितेनार्थः क्षणिकत्वेन कश्चन ।
तत्र पर्यनुयोगश्च क्रियमाणोऽपि निष्फलः ॥ ४२४ ॥ सर्वज्ञचेतसोऽपीति । न केवलं समानजातीयस्य क्षणस्य, जलधारणादेश्च कार्यस्येत्यपिशब्दः। कार्यरूपाद्यदृष्टित इति । निबन्धनत्वे' हेतोः ' कार्यम्-तदीयं फलम्, रूपम्तस्य स्वभावः । आदिशब्देन तस्य देशः, कालः; अवस्थाविशेषश्च गृह्यते । तस्य चैवंरूपस्य शशविषाणादिभ्यो न कश्चिद्विशेषोऽस्तीति भावः । नचापि तस्मिंस्तथाभूते वस्तुनि क्षणिकत्वेन साधितेनार्थक्रियार्थिनः किञ्चित् प्रयोजनमस्ति तस्य दृष्टादृष्टयोर्हिताहितप्राप्तिपरिहारायोग्यत्वात् । यथोक्तम्
"अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम् !
१- १. पा०, दा० पुस्तकयोर्नास्ति ।