________________
१३४
तत्त्वसंग्रहे हि भावानां सामर्थ्य व्यवस्थाप्यते। यश्च न किञ्चित् करोति स कथं समर्थः स्यात्; अन्यथा ह्याकाशकुशेशयादेरपि सामर्थ्य किं न व्यवस्थाप्येत! ॥ ४१५ ॥
सर्वसामर्थ्यशून्यत्वात् तारापथसरोजयत्। .
असन्तोऽक्षणिकाः सर्वे शक्तिर्यद् वस्तुलक्षणम् ॥४१६॥ स्यादेतद्-यदि नाम सामर्थ्यमस्य निवृत्तं तथापि सत्त्वमनिवृत्तमेव, ततश्च सत्त्वादित्यनैकान्तिक एव हेतुः? इत्याह-असन्त इत्यादि । इदमेव हि वस्तुलक्षणं यदर्थक्रियासामर्थ्यम्, तच्चेन्निवृत्तम्, तत्कथं वस्तुत्वं तल्लक्षणं तेष्ववस्थां लभते! तदेवं क्रमाक्रमाभ्यामर्थक्रियासामर्थ्यशून्यत्वाद् वन्ध्यापुत्रादिवदसद्व्यवहारयोग्या अक्षणिकत्वेनाभिमता आकाशादय इति सिद्धम् ॥ ४१६॥
अथ नाङ्गीक्रियेतेदं वस्तुत्वं शक्तिलक्षणम्।
यदेवमन्यनिर्देश्यं वस्तूनां लक्षणं परैः ॥४१७॥ अथापि स्याद्-यद्यर्थक्रियासामर्थ्यलक्षणमेव वस्तुलक्षणं भवेत्, तदैततत् सर्वं शोभेत? यद्येवम्, किमन्यद्वस्तुलक्षणमिति वक्तव्यम्! तधा हि-शशविषाणादौ यदवस्तुत्वमिष्टम्, तत्रार्थक्रियासामर्थ्यविरह एव निबन्धनम्; वस्त्ववस्तुनोश्चान्योऽन्यव्यवच्छेदरूपत्वात्। सामर्थ्यादवस्तुलक्षणविपरीतमर्थक्रियासामर्थ्यमेव वस्तुलक्षणमवतिष्ठत इति भावः ॥ ४१७॥ अत्र परस्योत्तरमाशङ्कते
सत्तासम्बन्ध इष्टश्चेद् वस्तूनां लक्षणं न तत्।
असिद्धेः समवायादेः कथं वाऽन्योऽन्यलक्षणम् ॥ ४१८॥ न ह्यर्थक्रियासामर्थ्य वस्तुलक्षणम्, किं तर्हि ? सत्तासम्बन्धः, सत्तासमवाय इति यावत्। न तदिति। वस्तुलक्षणं युक्तमिति शेषः; समवायादेरसिद्धत्वात्। आदिशब्देन सत्तापरिग्रहः। यदि समवायादिः सिद्धो भवेत्, तदा समवायो वस्तुलक्षणं स्यात्; यावता तेषामेव साध्यत्वेन प्रस्तुतत्वात्, वक्ष्यमाणबाधकप्रमाणसद्भाबाच्च। यदि वा पूर्वोक्तादेव बाधकात् प्रमाणात् सत्तायाः समवायस्य चासिद्धिः; केनचित् सह सत्तायाः सम्बन्धासिद्धेस्तस्यानुपकार्यत्वात्। न ह्यनुपकारिणोः परस्परं सम्बन्धः; अतिप्रसङ्गादित्युक्तम्। किञ्चतयोरपि सत्तासमवाययोरन्त्यानां च विशेषाणां वस्तुत्वे किं लक्षणमिति वक्तव्यम्। न हि समवाये विशेषेषु च सत्ता समवैति। नापि सत्तायाम्, किं तर्हि ? द्रव्यगुणकर्मसु [G.151] त्रिपदार्थ-सत्करी सत्तेति समयात्। तस्मादव्यापीदं वस्तुलक्षणम्।
भवतु नाम सत्तादेः सिद्धिः, तथापि न सत्तासमवायो लक्षम युक्तम्; अर्थान्तरत्वात्। न ह्यर्थान्तरमर्थान्तरस्य स्वरूपम्, येन तस्य तल्लक्षणं भवेत्। तथा हि-वस्तुस्वरूपापरिज्ञानान्मूढधियं प्रति तल्लक्षणे प्रकृते तत्स्वभाव एव कुतश्चिद् व्यावृत्त्या प्रतीतो लक्षणत्वेन वाच्यः. येन तदेव वस्तुस्वरूपत्वेनावधारयति, यथा-पृथिवी खरकटत्वेन। न चान्यः पदार्थोऽन्यपदार्थस्वरूपम्; अन्यत्वहानिप्रसङ्गात्। तत्कथं तल्लक्षणं भवेत्, लक्षणशब्दस्य स्वभाववचनस्य प्रस्तुतत्वात् ! ॥ ४१८ ॥