________________
स्थिरभावपरीक्षा
१३३
कथम्? इत्याह-.
तत्सम्बद्धस्वभावस्य भावे तेषामपि स्थितेः। तैः सहकारिभिः सम्बद्धः स्वभावो यस्येति विग्रहः। तेषामपति सहकारिणाम्; निगडबद्धपुरुषाकर्षणे निगडाकर्षणवत् तेषामप्यनुवृत्तेः। एवं हि स एव पूर्वस्वभावापरित्यागेनानुवृत्तो भवति । यदि हि सहकारिणा सम्बद्धं स्वभावं न जहाति, तत्सम्बद्धस्व-[G.149] भावापरित्यागेन सामर्थ्यात् सहकारिणामप्यपरित्यागः; प्रतियोगिसव्यपेक्षत्वात् सम्बन्धित्वस्य। अन्यथा सैव तस्य प्रकृतिर्न भवेत्। अथान्येति पक्षः, तत्राह
अन्यच्चेद् विकलं रूपमेकत्वमवहीयते ॥४१२॥
व्यपेक्षयाऽप्यतश्चैवं न कार्याणां क्रमोदयः।। यदि हि सहकारिविकलं रूपमस्यान्यदितीष्यते, तदा नित्यत्वहानिप्रसङ्गः; रूपस्य भावा-व्यतिरेकात्। तस्मात् 'सहकारिकारणापेक्षायामपि न स्थिराणां क्रमेणार्थक्रिया युक्ता ॥ ४१२॥ नापि यौगपद्येनेति दर्शयति
यौगपद्यं तु नैवेष्टं तत्कार्याणां क्रमेक्षणात् ॥४१३॥ परैरपि नित्यपदार्थकार्याणां नैव यौगपंद्यमिष्टम् । तथा हि-नित्यानामेतानि कार्याणि वर्ण्यन्ते-आत्मनः सुखदुःखादीनि, नभसः शब्दाः, नमसः क्रमवर्तीनि ज्ञानानि, अणूनां व्यणुकादिक्रमेण स्थूलाः, कालदिगीश्वरादीनां सर्वाण्येवोत्पत्तिमन्तीति । एषां च प्रत्यक्षादेव क्रमोदयः प्रसिद्धः ॥ ४१३॥
तदेवं.योगपद्याभ्युपगमे प्रत्यक्षविरोधः, अभ्युपगमविरोधश्चोक्तो भवति । इदानीमनुमानविरोधं प्रतिपादयन्नाह
निःशेषाणि च कार्याणि सकृत् कृत्वा निवर्त्तते।
. सामर्थ्यात्मा स चेदार्थः सिद्धास्य क्षणभङ्गिता ॥४१४॥ तथा. हि-युगपदशेषाणि कार्याणि कृत्वा स किं तस्यार्थक्रियासमर्थः स्वभावो निवर्त्तते? आहोस्विदनुवर्तते? इति पक्षद्वयम्। तत्र यदि निवर्त्तत इति पक्षः, तदा तस्य क्षणभङ्गित्वं सिद्धम् प्रतिक्षणमपरापरस्वभावोत्पत्तेः, पूर्वपूर्वस्य च स्वभावस्य स्वरसविनाशात् ॥४१४॥ ... तद्रूपस्यानुवृत्तौ तु कार्यमुत्पादयेत् पुनः।
अकिञ्चित्कररूपस्य सामर्थ्य चेष्यते कथम् ॥ ४१५ ।। अथ द्वितीयः पक्ष आश्रीयते, तदा तद्रूपस्य समर्थात्मनोऽनुवृत्तौ सत्यां पुनः कार्यमुत्पादयेत्; अत्यक्तपूर्वरूपत्वात्, प्रागवस्थावत्। ततश्च स एव क्रमो जात इति यौगपद्याभ्युपगमोऽनुमानविरुद्धः । अथापि स्यात्, मा भूत् तस्य क्रमयोगपद्याभ्यामर्थक्रिया, [G.150] तथापि सामर्थ्यमस्यास्त्येवेत्याह-अकिञ्चित्कररूपस्येत्यादि। कार्योत्पादनिबन्धनं १. सहकारिणोऽपे०-पा०,गा०।
२. च-पा०,गा०। ३. वैशेषिकैरित्यर्थः।
४. विज्ञानानि-पा०,गा०।