________________
१३२
तत्त्वसंग्रहे
वार्थे । रोपकारी सँस्तस्य समवायीष्यत इति सम्बन्धः । तत्र प्रथमपक्षे उपकारस्योपक्रियमाणपदार्थाव्यतिरेकात् स एव तदुत्पत्तिलक्षणः सम्बन्धोऽङ्गीकृतः स्यात् । स चानन्तरमेव निरस्तः ॥ ४०४-४०५ ॥
अथ द्वितीयः पक्षः, तदा विशेषाभावात् सर्वः सर्वस्य समवायी स्यात् । तद्दर्शयतिअन्येऽपि सर्वभावाः स्युस्तथैव समवायिनः । अविशेषान्न तस्यायमुपकारी मतो यदि ॥ ४०६ ॥ तथैवेति। अभिमतपदार्थवदनुपकारित्वेनाविशिष्टत्वात् ॥ ४०६ ॥
उभयानुभयपक्षावधिकृत्याह
भेदाभेदविकल्पस्य प्रत्येकं प्रतिषेधनात् ।
द्विरूपोऽतिशयस्तस्य व्यस्तो भवति वस्तुनः ॥ ४०७ ॥
प्रत्येकपक्षनिराकरणादेवोभयात्मकपक्षस्य निराकरणम्; सद्व्यतिरेकेणोभयात्मकपक्षाभावात्। किञ्च—एकाकारत्यागपरिग्रहयोरपराकारपरिग्रहत्यागांनान्तरीयकत्वादयुक्तं वस्तुसत उभयानुभयरूपत्वम् । न ह्येकस्यैकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तौ; एकत्वहानिप्रसङ्गात् ॥ ४०७॥
[G.148] एतच्च पुद्गलादिपरीक्षायां प्रतिपादितम्, तद्दर्शयति
पुद्गलादिपरीक्षासु
द्वैराश्यप्रतिषेधनात् ।
द्विरूपोऽतिशयो नास्ति न वाऽप्यनुभयात्मकः ॥ ४०८ ॥
अथैकार्थक्रियाकारित्वेन सहकारिणस्तस्येति द्वितीयः पक्ष आश्रीयते, यथाऽऽहुरेके“नैवासौ सहकारिणोऽपेक्षते, न चापि सहकारिवियुक्तः कार्यस्य कारकः; यत ईदृशस्तस्य निसर्गसिद्धः स्वभावो यत्सन्निहितसकलसहकारिकारण एव कारकः, अन्त्यहेतुवन्न केवलः; तेन तस्य भावेऽपि न कार्यस्य सर्वदोत्पत्तिप्रसङ्गः" इति । तदेतद्दर्शयति
अथ नापेक्षते नित्यः प्रत्ययान् सहकारिणः ।
तथापि तद्वियुक्तोऽयं कारको नान्त्यहेतुवत् ॥ ४०९ ॥ निजस्तस्य स्वभावोऽयं तेषामेव हि सन्निधौ ।
कारकत्वमतः कार्यं तद्भावेऽपि न सर्वदा ॥ ४९० ॥
नेति कारक इत्यनेन सम्बन्धनीयम् । अन्त्यहेतुवदितिवैधर्म्यदृष्टान्तः । यद्वा-उत्तरेण कारकत्वमित्यनेन साधर्म्यदृष्टान्ततया सम्बध्यते । षष्ठ्यन्ताच्च वतिः कार्यः । तद्भावेऽपीति तस्य नित्यस्य पदार्थस्य सद्भावेऽपि ॥ ४०९-४१० ॥
अस्त्वेवमित्यादिना प्रतिविधत्ते
अस्त्वेवम्, किन्तु साकल्ये या तस्य प्रकृतिर्मता ।
वैकल्ये सैव चेदिष्टा नित्याः स्युः सहकारिणः ॥ ४११ ॥ भवत्वेवं कल्पना, किन्त्विदमिह निरूप्यते - या तस्य सहकारिसाकल्यावस्थायां प्रकृतिः, किं सैव वैकल्यावस्थायाम् ? आहोस्विदन्या ? यदि सैंव, तदा सहारिणोऽपि नित्याः प्राप्नुवन्ति ॥ ४११ ॥