________________
स्थिरभावपरीक्षा
१३१ करणे वा तद्वदेव भावस्यापि करणप्रसङ्गात्। ततश्च नित्यत्वहानिः । अथ द्वितीयः पक्षः, तदाऽतिशयादेव कार्योत्पत्तेर्भावस्याकारकत्वप्रसङ्गः। असाविति नित्यः पदार्थः ॥ ३९७-३९९ ।। एतदेव स्पष्टयति
तस्मिन् सति हि कार्याणामुत्पादस्तदभावतः।
अनुत्पादात् स एवैवं हेतुत्वेन व्यवस्थितः ॥४००॥ तस्मिन्निति । अतिशये सतीत्यर्थः । एवमिति । तद्गतान्वयव्यतिरेकानुविधानात् ॥ ४०० ॥ अथापीत्यादिनात्रैव परस्योत्तरमाशङ्कते
अथापि तेन सम्बन्धात् तस्याप्यस्त्येव हेतुता। कः सम्बन्धस्तयोरिष्टस्तादात्म्यं न विभेदतः॥४०१॥ न च तस्य तदुत्पत्तियोगपद्यप्रसङ्गतः।
ततश्च यौगपद्येन कार्याणामुदयो भवेत् ॥ ४०२॥ तेनेति अतिशयेन। तस्यापति नित्यस्य। कं: सम्बन्धइत्यादिनोत्तरमाह। कः सम्बन्धः. नैव कश्चिदित्यर्थः । द्विविध एव हि सम्बन्धः-तादात्म्यम्, तदुत्पत्तिश्च । तत्र न तावत्तादात्म्यलक्षणः; भेदस्याङ्गीकृतत्वात् । नापि तदुत्पत्तिलक्षणः; सहकारिभ्य एव तस्योत्पत्तेः । अथ' ततस्तस्योत्पत्तिरङ्गीक्रियते; तदा तन्मात्रभावित्वादतिशयानां युगपदेवोत्पत्तिः स्यात्। ततश्च सर्वकार्याणां युगपदुत्पत्तिप्रसङ्गः; अतिशयवत: कारणस्य सर्वदाऽवस्थितत्वात्॥ ४०१४०२॥
तत्राप्यन्यव्यपेक्षायामनवस्था प्रसज्यते। एकदापि ततः कार्यं नासम्बन्धात् प्रकल्प्यते॥४०३॥
सम्बन्धः समवायश्चेत्; : [G.147] अथ तत्राप्यतिशयोत्पत्तौ, सहकारिकारणापेक्षणात् क्रमेणातिशयोत्पत्तेर्न कार्याणां योगपदयं भवतीति स्यात्? तदयुक्तम्; एवं ह्यनवस्था स्यात् । तथा हि-तत्रापि सहकारिणामतिशयान्तरकरणात् संहकारित्वं वक्तव्यम्, तस्य चातिशयस्य व्यतिरेकित्वात् सम्बन्धासिद्धिः, तदुत्पत्तौ सकृदुत्पत्तिप्रसङ्गः, तत्रापि सहकारिव्यपेक्षायां पुनरियमेव चिन्ताऽवतरति । ततश्चानवस्थायां न कदाचिदतिशयेन सह तस्य सम्बन्धः सिध्येत् । तदसिद्धौ न तस्मात् कार्योत्पत्तिः; अतिशयादेव कार्योत्पत्तेः ॥ ४०३॥
अथापि स्यात्-न तदुत्पत्तिलक्षणस्तस्यातिशयेन सह सम्बन्धः, किं तर्हि ? तत्समवायलक्षणः, तत्र नित्ये धर्मिणि तस्यातिशयस्य समवेतत्वात्? तदेतदयुक्तमिति दर्शयन्नाह
तत्राप्येवं विचिन्त्यते। उपकारी भवस्तस्य समवायीष्यते स किम् ॥४०४॥ .. न वा तथेति प्रथमो विकल्पो यदि गृह्यते।
सैव प्राप्ता तदुत्पत्तिळपास्ता साऽप्यनन्तरम् ॥ ४०५ ।। १. पा० गा० पुस्तकयो स्ति।