________________
१३०
तत्त्वसंग्रहे धाश्रयणीयः, तत्र साध्यनिवृत्तौ साधननिवृत्तिमात्रस्य साधयितुमिष्टत्वात् । तच्च व्याप्यव्यापकभूतयोर्धर्मयोप्प्यव्यापकभावसिद्धौ सत्यां धर्मिविशेषपरिग्रहमन्तरेणैव सामान्येन व्यापकाभावे व्याप्यमपि न भवतीति वचनमात्रादेव प्रतीयते, यथा-वृक्षाभावे शिंशपा न भवतीति । यथोक्तम्
"तस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः। तदभावे च तन्नेति वचनादपि तद्गतिः ॥"
(प्र० वा० ३.२६) इति । ३९२-३९४॥ न तावत् स्थिरस्य भावस्य क्रमेणार्थक्रिया युक्तेति दर्शयति__कार्याणि हि विलम्बन्ते कारणासन्निधानतः। .
समर्थहेतुसद्भावे क्षेपस्तेषां हि किकृतः॥३९५ ॥ न हि कार्यस्य स्वेच्छया भवनमभवनं वा; किन्तु कारणसदसत्तानुविधायिनी तस्य सदसत्त्वे। तत्र यदसौ स्थिरैकरूपो भावः सर्वदा सर्वकार्याणां हेतुभावेनावस्थितः, तदा किमिति तत्सत्तामात्राकाङ्क्षीणि सकृदेव सर्वाणि कार्याणि नोत्पद्यन्ते, येन क्रमेण भवेयुः । क्षेप इति परिविलम्बः। तेन पाश्चात्त्यमपि तदीयं कार्यं प्रागेव भवेत्; अंप्रतिबद्धसामर्थ्यकारणत्वाद्, अभिमतकार्यवदिति भावः ।। ३९५॥ : अथापीत्यादिना परस्योत्तरमाशङ्कते
अथापि सन्ति नित्यस्य क्रमिणः सहकारिणः।
यानपेक्ष्य करोत्येष कार्यग्रामं क्रमाश्रयम् ॥३९६॥ यद्यपि स्थिरः पदार्थः सर्वदा सन्निहितः, तथापि क्रमेण सहकारीणि तस्य सन्निधीयन्ते। अतस्तदपेक्षया क्रमेणासौ कार्याणि जनयिष्यतीति ॥ ३९६॥ साध्वित्यादिना प्रतिविधत्ते
साध्वेतत्, किन्तु ते तस्य भवन्ति सहकारिणः। किं योग्यरूपहेतुत्वादेकार्थकरणेन वा? ॥३९५॥ योग्यरूपस्य हेतुत्वे स भावस्तैः इंतो भवेत्। स चाशक्यक्रियो यस्मात् तत्स्वरूपं तदा स्थितम्॥३९८॥ कृतौ वा तत्स्वरूपस्य नित्यताऽस्यावहीयते।
विभिन्नोऽतिशयस्तस्माद् यद्यसौ कारकः कथम् ॥३९९॥ [G.146] न हि तस्य नित्यस्य कश्चित् सहकारी सम्भवति; तथा हि-अतिशयाधानाद्वा सहकारी भवेत्; यथा-बीजस्य क्षित्यादय उच्छूनाद्यवस्थाविशेषमादधानाः सहकारिणः? एकार्थक्रियया वा, यथा-उन्मिषितमात्रेण रूपदर्शने चक्षुषो रूपादयः? तत्र न तावदाद्यः पक्षः, तथा हि-असावतिशयस्तस्य सहकारिभिराधीयमानः क्वचित् तत्स्वभावादभिन्नः, भिन्नो वा भवेत्, यद्वा उभयानुभयरूपः; यथाऽऽहुराजीवका इति चत्वारः पक्षाः । तत्र न तावदाद्यः पक्षः, तत्स्वरूपवत्तदव्यतिरेकितया तस्यापि सदावस्थितत्वात्, सतश्च करणायोगात्, १. 'च' इति सर्वत्र नास्तिः 'तु' इति गा० पुस्तके। २. तद्गते:- सर्वत्र। . ३. पा०, गा० पुस्तकयो स्ति।