________________
स्थिरभावपरीक्षा
१२९
क्रमेण
युगपच्चापि यस्मादर्थक्रियाकृतः ।
न भवन्ति स्थिरा भावा निःसत्त्वास्ते ततो मताः ॥ ३९४ ॥ अर्थक्रियासामर्थ्यलक्षणमिह सत्त्वं हेतुत्वेनेष्टम्, तच्च क्षणिकत्वनिवृत्तौ [G.144] निवर्त्तते । तथा हि- भावा अर्थक्रियां कुर्वन्तः क्रमेण वा कुर्वीरन् ? यौगपद्येन वा ? न हि क्रमयौगपद्याभ्यामन्यः प्रकारः सम्भवति; तयोरन्योऽन ऽन्यव्यवच्छेदतरूपत्वात् । एतच्च प्रत्यक्षत एव प्रसिद्धम् । तथा हि—घटो मधूदकादींस्तदन्यद्रव्यव्यतिभिन्नान् क्रमेणाहरन् स्वज्ञानोदकाहरणे न च यौगपद्येन कुर्वन् प्रत्यक्षेणैव परिच्छिद्यते । तत्र यान् कार्यभेदान् क्रमेणाहरन् समुपलभ्यते घटः, कुलालो वा शरावोदञ्चनादीन्, न तदैव तान् यौगपद्येन जनयितुं समर्थः । घटो वा स्वविषये ज्ञानादीन् यौगपद्येन जनयन्नुपलभ्यते, न तदैव तान् क्रमेणेति प्रत्यक्षावसितमेतत् सर्वम् । अतः क्रमस्य यौगपद्यव्यवच्छेदेनैव परिच्छेदाद्, यौगपद्यस्य च क्रमव्यवच्छेदेनैवइत्येकप्रमाणवृत्तिर्द्वयोरन्यतरत्परिच्छिन्दती ततः परं प्रतियोगिनं व्यवच्छिनत्ति, प्रकारान्तराभावं च सूचयतीति प्रत्यक्षप्रमाणावसिंत एवानयोरन्योन्यवृत्तिपरिहारस्थितलक्षणो विरोधः । तेन 'तृतीयराश्यभावात् क्रमयौगपद्याभ्यामर्थक्रिया व्याप्ता । सा च स्थिरेषु भावेषु स्वव्यापक निवृत्तौ निवर्त्तमाना तल्लक्षणं सत्त्वं निवर्त्तयतीति सिद्धा व्याप्तिः ।
न चैतच्छक्यं वक्तुम्—' क्रमयौगपद्ये एव भावानां न सिद्धे; व्यतिरिक्तकालपदार्थानभ्युपगमात्' इति' । न हि वयं भावानामर्थान्तरभूतकालपदार्थकृतं क्रमयौगपद्यं ब्रूमः । किं तर्हि ? तथातथोत्पादकृतम् । तथा हि-यदि चैकः सत्तामनुभवति तदैव यदा परे तद्वदेव तामनुभवन्ति, त एवं सर्वे तथोत्पद्यमांना अक्रमव्यपदेशनिबन्धना भवन्ति । तद्यथासमग्रसामग्रीका बहवोऽङ्कुराः समुत्पद्यमानाः विपर्ययांत् क्रमव्यपदेशभाजः, यथा - अङ्कुरकाण्डपत्रादयः । एते च प्रत्यक्षत एवं सिद्धा:, तथैव च व्यपदिश्यन्ते जनैः । तथाभूतपदार्थविषयोऽपि कारणव्यापारस्तद्विषयक्रमयौगपद्याभ्यां व्यपदिश्यत इत्यचोद्यमेतत् ।
ननु च यदि स्थिरो भावः सिद्धो भवेत्, तदा तत्र क्रमयौगपद्यनिवृत्तौ सत्यामर्थक्रियायाः सामर्थ्यनिवृत्तिः सिध्येंत् । यथा - क्वचित् प्रदेशे धर्मिणि वृक्षनिवृत्तौ शिंशपानिवृत्तिः । अन्यथा ह्यसिद्धे प्रदेशधर्मिणि कुत्र शिंशपाऽभावः प्रतीयेत । न चासौ सिद्धः; तस्यैव प्रतिषेद्धुमिष्टत्वात् । अथापि सिद्धोऽङ्गीक्रियते, न तर्हि तस्य प्रतिक्षेपो युक्तः; तस्य धर्मिणः स्वरूपेण सिद्ध्यभ्युपगमात्, ततश्च सत्त्वादित्ययमप्यनैकान्तिक एव हेतु:, विपक्षे वृत्तेरिति ? नैतदस्ति; न ह्यस्माभिः स्वातन्त्र्येण प्रमाणतया व्यतिरेकसाधिन्या अस्या व्यापकानुपलब्धेः प्रयोगः क्रियते, किं तर्हि ? प्रसङ्गापादनं परं प्रति क्रियते । यदि भवता तेषां स्थिररूपताऽङ्गीक्रियते [G.145] तदाऽर्थक्रियासामर्थ्यमपि नाङ्गीकर्त्तव्यम्; तत्र क्रमयौगपद्ययोगस्य तद्व्यापकस्याभावात् । न हि व्यापक निवृत्तौ व्याप्यमवस्थातुमुत्सहते; अन्यथा व्याप्यव्यापकभाव एव तयोर्न स्यात् । ततश्चार्थक्रियासामर्थ्यनिवृत्तौ सत्त्वमपि तेषां नाङ्गीकर्त्तव्यम्; अर्थक्रियासामर्थ्यलक्षणत्वात् सत्त्वस्येति । अनेनोपायेन तेषामभाव एव प्रतिपाद्यते । न चापि वैधर्म्यदृष्टान्तेऽवश्यं वस्तुभूतो २. इतः परं जै० पुस्तके 'तदयुक्तम्' इत्यधिकः पाठः ।
१. तृतीयस्याभावात् — पा०, गाढं ।
३. सत्त्वादिभ्य यमप्यनै- पा०: सत्त्वादिभ्य (इत्य) यमप्यनें- गा० ।