________________
तत्त्वसंग्रहे
उत्पादानन्तरास्थायि स्वरूपं यच्च
वस्तुनः । तदुच्यते क्षणः सोऽस्ति यस्य तत् क्षणिकं मतम् ॥ ३८८ ॥ उत्पादनन्तरविनाशस्वभावो वस्तुनः क्षणः उच्यते, स यस्यास्ति स क्षणिक इति । तथा चोक्तम्–‘“ आत्मलाभानन्तरविनाशी क्षणः स यस्यास्ति स क्षणिकः " ( ) इति ॥ ३८८ ॥ नन्वेवमपि स्वभावस्यानर्थान्तरत्वात् सोऽस्यास्तीति व्यतिरेकनिबन्धनः प्रत्ययो नोपपद्यते ? इत्याह
१२८
असत्यप्यर्थभेदे च सोऽस्त्यस्येति न बाध्यते ।
इच्छारचितसङ्केतमात्रभावि हि वाचकम् ॥ ३८९ ॥
यथा स्वस्य स्वभावः, शिलापुत्रकस्य शरीरम् - इत्यादावसत्यपि वास्तवे भेदे बुद्धिपरिकल्पितं भेदमाश्रित्य व्यतिरेकषष्ठीविभक्तिर्भवति, तथेहापि भविष्यति ; न हि वस्तुस्वभावानुविधायिन्यो वाचः, किं तर्हि ? वक्तुरिच्छामनुविदधते ॥ ३८९ ॥ [G.143] अपि च—यावत्यर्थे यावानेव वक्तृभिर्विनियुज्यते ध्वनिः, स तावानेव तमर्थं सङ्केतवशात् प्रत्याययति, न तु परमार्थतः प्रकृतिः प्रत्ययो वास्ति । 'क्षणिक : ' इति चायं शब्द उत्पादानन्तरावस्थायिनि वस्तुमात्रे नियुक्तो विद्वद्भिः । तत्र चैवम्भूते वस्तुनि क्षणिकशब्देन विवक्षिते क्षणिकः शब्दः सप्रत्ययो वा प्रयुज्यताम्, प्रत्ययरहितो वा - इलि नात्रास्माकमिच्छामात्रानुरोधिनि साङ्केतिके वचस्यत्यादर • इत्येतद्दर्शयति
· उदयानन्तरास्थायि वस्त्वेवं तु विवक्षितम् ।
तत्र सप्रत्ययः शब्दोऽप्रत्ययो वा प्रयुज्यताम् ॥ ३९० ॥
एवमिति क्षणिकमित्यनेन । सह प्रत्ययेन मत्वर्थीयेन वर्त्तत इति सप्रत्ययः ॥ ३९०॥ २. एवं व्योमादीनामकृतकत्वाभ्युपगमे सति नियमेनासद्व्यवहारविषयतैवेति प्रतिपादितम् । इदानीं सत्त्वाभ्युपगमे तु क्षणिकत्वमेवैषां प्रसज्यत इति साधयन्नाहयदि तु व्योमकालादयाः सन्तः स्युस्ते तथा सति । नातिक्रामन्ति तेऽप्येनं क्षणभङ्गं कृता इव ॥ ३९१ ॥ कृता इवेति । कृतका इवेत्यर्थः । एतेन सत्त्वात्' इत्ययं हेतुः सुचितः ॥ ३९१॥ तमेव स्पष्टीकुर्वन्नाह—
तथाहि सन्तो ये नाम ते सर्वे क्षणभङ्गिनः ।
तद्यथा संस्कृता भावास्तथा सिद्धा अनन्तरम् ॥ ३९२ ॥ सन्तश्चामी त्वयेष्यन्ते व्योमकालेश्वरादयः ।
प्रयोगः - यत् सत् तत् सर्वं क्षणिकम्, यथा समनन्तरं प्रतिपादिताः क्षणिका: पदार्थाः । सन्तश्च भवता व्योमादयो भावा इष्यन्ते इति स्वभावहेतुः । तथा सिद्धा इति क्षणिकत्वेन । एतेन न साध्यविकलता दृष्टान्तस्याशङ्कनीयाः, प्रसाधितत्वादिति दर्शयति । त्वयेष्यन्त इत्यनेन प्रसङ्गसाधनमेतदिति दर्शयति; अन्यथा हेतोरन्यतरासिद्धता स्यात्।
कथं पुनरस्य हेतोर्व्याप्तिः सिद्धा ? इत्याहक्षणिकत्ववियोगे तु न सत्तैषां
प्रसज्यते ॥ ३९३ ॥