________________
स्थिरभावपरीक्षा
१२७
न चापि विरुद्धः; स्वपक्षे भावात् । नचाप्यनैकान्तिकः; पूर्वं प्रसाधितत्वात्।
स्यादेतत्-यथाऽऽकाशं मूर्त्तत्वाय न परमपेक्षते, अथ न तत्र नियतं न भवति; तद्वद्भावः कृतकोऽपि सन् कश्चिन्नैव नाशे नियतो भविष्यतीति? तदेतदसम्यक्; न हि स कश्चित् कृतकोऽस्ति यः परेणानित्यो नेष्यते; हेतुमतः सर्वस्यानित्यत्वाभ्युपगमात्। त एव चेह पक्षीकृता नान्य इति कुतोऽनैकान्तिकता! ये तु पुनः कृतका अपि सन्तो नित्या एव भविष्यन्तीत्यविनाशितयेति सम्भाव्यन्ते, ते परमार्थतोऽकृतकराश्यन्तर्गता एवेति तन्निराकरणादेव तन्निराक्रिया बोद्धव्येत्यदोषः ।
नान्याकाशादेर्मूर्त्तत्वादिधर्मं प्रत्यनपेक्षा सिद्धा, यस्य हि यो धर्मो नास्ति स तं प्रति सापेक्ष एव, न हि प्राप्तं धर्मं प्रति काचिदपेक्षा भावानां व्यवस्थाप्यते, किं तर्हि ? अप्राप्तमेवइत्यसिद्धो दृष्टान्तः ॥ ३८३-३८४॥ इदानीमकृतकराशिमधिकृत्याह
ये तु व्योमांदयो भावा अकृतत्वेन सम्मताः। वस्तुवृत्त्या न सन्त्येव ते च शक्तिवियोगतः॥३८५॥ क्षणिकाक्षणिकत्वादिविकल्पस्तेष्वनास्पदः ।
तदा वस्त्वेव येन स्यात् क्षणिकं यदि वान्यथा ॥३८६॥ १. यदि हि व्योमादयो भावाः सिद्धसत्ताकाः स्युः, तदा तेषु क्षणिकत्वादिधर्मचिन्ताऽवतरेत्। न हि धर्माणां स्वातन्त्र्येण सिद्धिरस्ति; अन्यथा हि धर्मत्वमेव तेषां हीयेत। न [G.142] चाकाशादयोऽकृतका धर्मिणः तेषां सर्वसामर्थ्यविरहित्वेन वन्ध्यापुत्रवदसद्व्यवहारविषयत्वात्। .
प्रयोग:- यत्सर्वसामर्थ्यशून्यं तदवस्तु, यथा-वन्ध्यापुत्रः । सर्वसामर्थ्यशून्यं चाकाशादीति स्वभावहेतुः । वस्तुतो व्यापकानुपलब्धिर्वा । न चानैकान्तिको हेतुः; एतावन्मात्रनिबन्धत्वादसद्व्यवहारस्य। नाप्यसिद्धिरिति पश्चात् प्रतिपादयिष्यामः । सपक्षे भावान्नापि विरुद्धः ॥३८५-३८६॥ : कस्मात् पुनरवस्तुनि क्षणिकाक्षणिकविकल्पो नावतरति ? इत्याह
क्षणावस्थितरूपं हि वस्तु क्षणिकमुच्यते।
स्थिररूपसमाक्रान्तं वस्त्वेवाक्षणिकं पुनः॥३८७॥ सुबोधम्॥३८७॥
उद्दयोतकरस्त्वाह- "क्षणिक इति मत्वर्थीयानुपपत्तिः, तथा हि-यदि निरुक्तन्यायेन क्षयः क्षणः, सोऽस्यास्तीति क्षणिक इति साध्यते', तन्न युक्तम्; कालभेदात्। यदा हि क्षयो न तदा क्षयीति भिन्नकालयोन मत्वर्थीयो दृष्टः । अथ पुनर्भावान्तरविनाशेन विशिष्यमाणः क्षण इत्युच्यते? तदपि स तेनैव तद्वान्न भवतीति न युक्तो मत्वर्थीयः । अत क्षणस्थितिकाला: क्षणिकाः, सर्वान्त्यो हि कालः क्षणः, तं येऽवतिष्ठन्ते ते क्षणिकाः? एतदपि न युक्तम्; संज्ञामात्रेण कालस्याभ्युपगमात्, न च संज्ञामात्रं वस्तुविशेषणत्वेन युक्तम्" इति। तत्राह१. बोध्यते- पा०, गा०।