________________
१२६
तत्त्वसंग्रहे
यतो नास्य विधेयं किञ्चिद्रूपमस्ति, किं तर्हि ? वस्तुस्वरूपस्य क्षणादूर्ध्वं स्वभावानु - वृत्तिर्निषिध्यते । तस्मादयमेकान्तेनाभावरूप एवेति नित्यविकलोऽन नास्पद एव; नि:स्वभावत्वादेव सदा व्यवस्थितरूपायोगात्, स्वभावप्रतिबद्धत्वात् नित्यानित्यधर्मयोः । यच्चोक्तम्'अकारणं भवतां द्विधा - नित्यमसच्च' इति, तत्परसिद्धान्तानभिज्ञतया, यतो न्यायवादिनां बौद्धानामकरणमसदेव । यथोक्तं भगवता - " स धर्मेषु धर्मानुदर्शी विहरन् बोधिसत्त्वोऽणुमपि धर्मं न समनुपश्यति यः प्रतीत्यसमुत्पादविनिर्मुक्तः" (. ) इति । ये च वैभाषिकाः आकाशदिवस्तु सत्त्वेन कल्पयन्ति ते युष्मत्पक्ष एव निक्षिप्ताः, न शाक्यपुत्रीया इति न तन्मतोपन्यासो न्याय्यः । एवं नाशहेतूनां सर्वेषामकिञ्चित्करत्वान्नासिद्धता हेतोः ।
इतश्च नाशहेतूनामकिञ्चित्करत्वं वक्तव्यम् । तथा हि- भाव: स्वहेतोरुपत्पद्यमानः कदाचित् प्रकृत्या स्वयं नश्वरात्मैवोत्पद्यते, अनश्वरात्मा वा । यदि नश्वरः, तस्य न किञ्चिन्नाशहेतुता; स्वयं तत्स्वभावतयैव नाशात् । यो हि यस्य स्वभाव: स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति, न पुनस्तद्भावो हेत्वन्तरमपेक्षते; यथा - प्रकाशद्रवोष्णकठिनादयस्तदात्मान उत्पन्ना न पुनः प्रकाशादिभावहेत्वन्तरमपेक्षन्ते ।
स्यादेतत्—यथा बीजादयोऽङ्कुरादिजननस्वभावाः सन्तोऽपि न केवला जनयन्ति, सलिलादिकारणान्तरापेक्षत्वात्; तद्वद्भावो नश्वरस्वभावोऽपि नाशे कारणान्तरांपेक्षो भविष्यतीति ? तदेतदसम्यक्; अन्त्यावस्थाप्राप्तस्यैव जनकस्वभावत्वाभ्युपगमात्, नान्यस्य । तेन योऽसौ तत्स्वभाव: स जनयत्येव, नासौ परमपेक्षते । यस्तु कुशूलादिस्थो न जनयति, नासौ तत्स्वभावः । कारणकारणत्वात्तु तस्यापि कारणव्यपदेशो न मुख्यत इति नास्ति व्यभिचारः ।
अथानश्वरात्मेति पक्षः, तदापि नाशहेतुरकिञ्चित्कर एव । तस्य केनचित् स्वभावान्यथाभावस्य कर्तुमशक्यत्वात् । तथा हि-यदि स्वभाव उत्पादानन्तरं न विनश्येत्, तदा पश्चादपि स एव तस्य स्थितिधर्मा स्वभावस्तदवस्थ इति किं नाशहेतुना तस्य कृतम्, येन विनश्येत !
अथापि स्यात् - यथा ताम्रादीनां कठिनरूपाणामपि सतामग्न्यादिसम्पर्कादन्यथात्वं [G.141] भवति, तथा भावस्याविनश्वरस्वभावस्यापि सतो विनाशहेतुनाऽन्यथात्वं क्रियते, तेन विनाशहेतुं प्राप्य विनश्यतीति ? तदेतदसम्यक्; न हि स एवान्यथा भवति; स्वभावान्तरोत्पत्तिलक्षणत्वादन्यथात्वस्य । तथा हि-यत्तदन्यथात्वं नाम तत् किं भावादर्थान्तरम् ? आहोस्विद्भाव एंव ? न तावद्भाव एव; तस्य स्वहेतोरेव पूर्वं निष्पन्नत्वात्। अथार्थान्तरम् ? तथा सति भावोऽच्युतिधर्मा तथैवावस्थित इति न तस्यान्यथाभावः । ताम्रादिदृष्टान्तोऽप्यसिद्ध एव । तथा हि- ताम्रादीनां पूर्वकस्य कठिनादिक्षणस्य स्वरसनिरोधित्वाद्विनाशे सत्यग्न्यादेः सहकारिकारणान्तरात् स्वोपादानकारणाच्च सामग्र्यन्तराद् द्रवाख्यमपरमेव स्वभावान्तरमुत्पद्यते । पुनरपि द्रवादिस्वभावस्य स्वरसनिरोधितया विनाशे सति सहकारिकारणान्तरात् स्वोपादानकारणाच्च काठिन्याख्यमपरमेव स्वभावान्तरमुत्पद्यत इति नैकस्यान्यथात्वमस्ति । तस्मात् सर्वथाऽप्यकिञ्चित्कर एव नाशहेतुरिति नासिद्धो हेतुः ।
१. नित्यानित्यस्वभावप्रतिबद्धधर्मयो:- पा०, गा० ।
२. द्यायात्- गा० ।