________________
स्थिरभावपरीक्षा
१२५ प्रध्वंसश्च निरात्मा=निःस्वभावः, तत्कथमस्यानन्तरभावित्वादयः सम्भवेयुः । नाभूत्वा भावयोगश्चेति । चकरात् कादाचिकत्वपरिग्रहः ॥ ३७८ ।।
___ यद्येवम्-यदि ध्वंसस्यानन्तरभावित्वं नास्ति, तदा भावस्य ध्वंसो भवतीति कथमुच्यते', न हि यो न भवेत्येव तस्य भवतीति स्यात् ? इत्याशङ्कयाह- .
प्रध्वंसो भवतीत्येव न भावो भवतीत्ययम्।
अर्थः प्रत्याय्यते त्वत्र न विधिः कस्यचिन्मतः॥३७९॥ [G.139] यद्यपि ध्वंसो विधीयमानतया निर्दिश्यते, तथापि भावनिषेध एव प्रतीयते, न परमार्थतः कस्यचिद् वस्तुरूपस्य विधिः ॥ ३७९ ॥
ननु चैत्रस्य पुत्रो भवतीत्यादिवद् भवतिशब्दप्रयोगादत्रापि भवनमेव विधीयते? इत्याह
न हि बालेय इत्येवं नाममात्रे कृते क्वचित्।
सर्वो रासभधर्मोऽस्मिन् प्रसक्तिं लभते नरे॥३८०॥ न हि वस्तूनां शब्दप्रयोगमात्रानुविधायिनी सदसत्त्वे; तस्येच्छामात्रप्रतिबद्धप्रवृत्तित्वात्। अन्यथा हि क्वचित् पुंसि केनचिदिच्छावशा'बालेयः' इति नाम्नि निवेशिते सर्वस्य गर्दभधर्मस्य तत्र प्रसङ्गः स्यात् । बालेय-रासभशब्दौ गर्दभपर्यायौ ॥ ३८० ॥
ध्वंसनामः पदार्थस्य विधाने पुनरस्य न।
वस्तुनो जायते किञ्चिदित्येतत् किं निवर्त्तते ॥३८१॥ अवश्यं चैतद् विज्ञेयम्-यदुत वस्तुस्वभावनिषेध एव, न तु किञ्चिद्विधीयत इति; अन्यथा ध्वंसाख्यस्य पदार्थान्तरस्य विधाने सति न किञ्चिद्वस्तुनो जातमिति तद्वस्तु किमिति निवर्तेत!॥ ३८१॥ . यच्चोक्तम् "असत्वे सर्वभावानाम्" (तत्त्व ३७१) इत्यादि, तत्राह
'भावध्वंसात्मनश्चैवं नाशस्यासत्त्वमिष्यते।
वस्तुरूपवियोगेन न भावाभावरूपतः॥३८२॥ एवमिति । वस्तुस्वभाववियोगरूपत्वात्, न तु भावस्वभावस्य सतः स्वरूपपनिवृत्तेरसत्त्वम्, तत्कथं सर्वभावानां नित्यत्वं स्यात्! यदि हि स्वभावनिषधलक्षणो विनाशस्तेषामसन् स्यात्, तदा नित्यत्वमेषां स्यात्, यावता स्वभावनिषेधलक्षणो नाशः स्वयमसद्रूपस्तेषामस्त्येवेति कथं नित्या भवेयुः! सर्वसंस्कारनाशित्वप्रत्ययस्य तु निमित्तमभिहितमेव ॥ ३८२ ॥ यच्चोक्तम्- "नित्यत्वेऽपि सहस्थानम्" (तत्त्व० ३७२) इत्यादि, तत्राह
निवृत्तिरूपताऽप्यस्मिन् विधिना नाभिधीयते। वस्तुरूपानुवृत्तिश्च क्षणादूर्ध्वं निषिध्यते ॥ ३८३॥ अतो व्यवस्थितं रूपं विहितं नास्य किञ्चन।
इति नित्यविकल्पोऽस्मिन् क्रियमाणो निरास्पदः॥३८४॥ [G.140) निवृत्तिर्भवतीत्यनेनापि वचनेनास्मिन् प्रध्वंसे विधिरूपेण निवृत्तिरूपता नाभिधीयते;. १. पा०, गा० पुस्तकयो स्ति।