________________
१२४
तत्त्वसंग्रहे तदत्र कतमं नाशं परे पर्यनुयुञ्जते? किं क्षणस्थितिधर्माणं भावमेव तथोदितम् ? ॥३७३॥ अथ भावस्वरूपस्य निवृत्तिं ध्वंससंज्ञिताम्?
पूर्वपर्यनुयोगे' हि नैव किञ्चिद् विरुध्यते ॥३७४॥ द्विविधो हि विनाशो विधिप्रतिषेधलक्षणः। तथा हि-क्षणस्थितिधर्मा भाव एव चलो विनश्यतीति कृत्वा विनाश इत्याख्यायते । यद्वा-भावस्वभावप्रच्युतिलक्षणप्रध्वंसापरनामा विनशनं विनाश इति। तत्र पूर्वस्मिन्नाशे यद्ययं हेतुमत्त्वसाधनपर्यनुयोगः क्रियते यथोक्तैर्हेतुभिः, तदा सिद्धसाध्यता ॥ ३७३-३७४॥ .. तामेव सिद्धसाध्यतां यो हीत्यादिना दर्शयति
यो हि भावः क्षणस्थायी विनाश इति गीयते।
तं हेतुमन्तमिच्छामः पराभावात् त्वहेतुकम् ॥३७५॥ __यद्येवम्, कथमहेतुको विनाशो भवतां प्रतीतः? इत्याह-पराभावात्व- [G.138] हेतुकमिति । परस्य स्वकारणव्यतिरिक्तस्योत्तरकालं मुद्गरादे शकस्याभावादहेतुकमिच्छाम इति प्रकृतेन सम्बन्धः ॥ ३७५ ॥
अत्र चैवम्भूते विनाशे धर्मिणि कादाचित्कत्वात् प्रागभूत्वाऽऽत्मलाभांदितीमौ हेतू सिद्धौ। वस्त्वनन्तरभावित्वमपि यदि सामान्येन विवक्षितं तदा सिद्धमेव; कारणभूतवस्त्वनन्तरमस्य भावप्रसिद्धेः । अथात्मभूतविनश्वरवस्त्वनन्तरभावित्यमस्य विवक्षितम्, तदा हेतुरसिद्ध इति दर्शयति
वस्त्वनन्तरभावित्वं न तत्र त्वस्ति तादृशि।
चलभावस्वरूपस्य भावेनैव सहोदयात्॥३७६॥ तादृशीति चलवस्तुस्वभावाव्यतिरेकिणि। न हिं निरंशस्य वस्तुनो भागोऽस्ति येन तदनन्तरभावित्वमस्य भवेत्; तत्स्वभाववत् तदव्यंतिरेकिणो नाशस्य तन्निष्पत्तावेव निष्पन्नत्वात्, अन्यथा तत्स्वभावत्वमेव तस्य न स्यादित्युक्तम् ॥ ३७६॥
यच्चोक्तम्- "सर्वसंस्कारनाशित्वप्रत्ययश्चानिमित्तकः" (तत्त्व० ३७१) इति, तदप्यत एव प्रतिक्षिप्तमिति दर्शयति
अतो विनाशसद्भावान नित्याः सर्वसंस्कृताः।
न विनाशीति बुद्धिश्च निर्निमित्ता प्रसज्यते॥३७७॥ यत एव हि क्षणस्थितिधर्माणः पदार्थास्तथाऽध्यवसीयमानतनवस्तस्या बुद्धेनिमित्तम्; अतो नानिमित्तत्वप्रसङ्गः ॥ ३७७॥ ___ अथ प्रध्वंसलक्षणो निनाशो धर्म्यभिप्रेतः, तदा त्रयोऽपि हेतवोऽसिद्धा इति दर्शयति
प्रध्वंसस्य तु नैरात्म्यान्नास्त्यनन्तरभाविता।
नाभूत्वाभावयोगश्च गगनेन्दीवरादिवत्॥३७८॥ वस्तुन्येव ह्यनन्तरभावित्वादयो धर्माः समाश्रिता नावस्तुनि, यथा शशविषाणादौ; १. ०पर्युनुयोगे-गा।
२-२. निरंशवस्तुनो-पा०, गा० ।