________________
स्थिरभावपरीक्षा
१२३
तथा हि-न वस्तुनः सत्ताकाले विनाशः; क्षणमात्रावस्थायिनोऽप्यभावप्रसङ्गात्; नाप्युत्पादात् पूर्वम् ; अजातस्य विनाशायोगात् । न हि वन्ध्यापुत्रादयोऽनुत्पन्ना एव विनश्यन्ति। पश्चादपि भवन्नचिराद् भवति, तृतीयादिषु क्षणेषु विनष्टस्य पुनर्विनाशायोगात्, भस्मीकृतज्वलनवत्; किन्तु वस्त्वनन्तरं द्वितीये क्षणे विनाशः । ततश्च नियतकालत्वाद्धेतुमान् विनाशः अङ्करादिवदिति सिद्धम् ॥ ३६७॥
एवं च हेतुमानेष युक्तो नियतकालतः। नियतकालत इति । कादाचित्कत्वादित्यर्थः । व्याप्तिमस्य साधयन्नाह
कादाचित्कत्वयोगो हि निरपेक्षे निराकृतः ॥३६८॥ न ह्यनपेक्षे कादाचित्कत्वं युक्तम्; नित्यं सत्त्वादिप्रसङ्गात्। तस्मात् कादाचित्कत्वात् सिद्धमस्य सहेतुत्वम् ॥ ३६८ ॥ इतोऽपि सिद्धमिति दर्शयति
वस्त्वनन्तरभावाच्च हेतुमानेव युज्यते।
अभूत्वाभावतश्चापि यथैवान्यः क्षणो मतः ॥३६९॥ तदेवमेते त्रयो हेतव उक्ताः-सहेतुको विनाशः; कादाचित्कत्वात्, वस्तूत्पत्त्यनन्तरभावित्वेन बौद्धैरभ्युपगम्यमानत्वात्, प्रागभूत्वाऽऽत्मलाभाच्च; क्षणान्तरवत् । वैधhण शशविषाणादय इति ॥ ३६९॥ .. . उद्द्योतकरोक्तामपि युक्तिमाह
अहेतुकत्वात् किञ्चायमसन् वन्ध्यासुतादिवत्। .: अथ वाऽऽकाशवन्नित्यो न 'प्रकारान्तरं यतः॥३७०॥
'असत्त्वे सर्वभावानां नित्यत्वं स्यादनाशतः।
सर्वसंस्कारनाशित्वप्रत्ययश्चानिमित्तकः ॥३७१॥ .. नित्यत्वेऽपि सह स्थानं विनाशेनाविरोधतः।
अजातस्य च नाशोक्तिनँव युक्त्यनुपातिनी ॥३७२॥ स ह्येवमाह-"विनाशस्य हेतुर्नास्तीति ब्रुवाणः पर्यनुयोज्य:-किमकार-[G.137] णत्वाद् विनाशो नास्ति व्योमोत्पलादिवत् ? अथाकारणत्वान्नित्यो व्योमादिवदिति। भवतां हि पक्षे अकारणं द्विघा दृष्टम्-नित्यम्, असच्च, न हि सत्त्वासत्त्वव्यतिरेकेण प्रकारान्तरमस्ति। तत्र यद्यकारणत्वादसत् विनाशः, तदा सर्वभावानां नित्यत्वप्रसङ्गः, विनाशाभावात्। किञ्चसर्वसंस्कारा निवश्यन्तीत्येष प्रत्ययो निर्निमित्तः प्राप्नोति; न ह्यसत्यां गतौ गच्छतीति भवति । अथ नित्यः? तदा भावस्य विनाशेन सहावस्थानं प्राप्नोति; सर्वदाऽवस्थानात् । न चैतद्युक्तम्; भावाभावयोः परस्परपरिहारस्थितलक्षणत्वात्। अथ सहावस्थानं नेष्यते, तदा कार्यस्योत्पादो न प्राप्रोति; तत्प्रत्यनीकभूतस्य नाशस्य सदाऽस्थितत्वात्। ततश्चाजातस्य विनाशोऽपि न सङ्गच्छते, न ह्यजाताः शशविषाणादयो विनश्यन्तीति लोके प्रतीतम्, तेनाजातस्य विनाश इति वचनं नैव युक्त्यनुपाति"॥३७०-३७२ ॥
तदक्रेत्यादिना सर्वं प्रतिविधत्ते