________________
तत्त्वसंग्रहे
१२२
अर्थानुवृत्तित इति । अन्यत्वादिविकल्पानामनुवृत्तेरित्यर्थः । एवं तावद् वस्तुभूतो न क्रियते
इति प्रतिपादितम् ॥ ३६२॥
नाप्यवस्तुभूत इति दर्शयन्नाह
भावाभावात्मको नाशः प्रध्वंसापरसंज्ञकः । क्रियते चेन्न तस्यापि करणं युक्तिसङ्गतम् ॥ ३६३ ॥ अभावस्य च कार्यत्वे वस्तुतैवांकुरादिवत् ।
प्रसक्ताजन्यरूपस्य हेतुशक्त्या समुद्भवात् ॥ ३६४ ॥ भावस्य हि करणं भवति; नाभावस्य निमित्तीकर्त्तव्यसकलस्वभावविरहलक्षणत्वान्न किञ्चिदुत्पाद्यं रूपमस्ति, अतो भावाभावात्मकः = भावनिषेधात्मको नाशो ने केनचित् क्रियते; अवस्तुत्वात्, खरविषाणवत् । अन्यथा हि कार्यत्वादङ्कुरादिवद् वस्तुत्वमेवं स्यात् । प्रयोगः - यत्कार्यं तद्वस्तु, यथा- - अङ्कुरादयः । कार्यश्च नाश इति स्वभावहेतुः।
व्याप्तिमस्य सांधयन्नाह - हेतुशक्त्या समुद्भवादिति । तदेव हि कार्यमुच्यते, यत् कारणशक्त्या विशिष्टमात्मातिशयमासादयति । समासादितात्मातिशयमेव च वस्तु । अत्र चार्थे नैयायिकादेरप्यविवादः। तथा हि- सत्तासमवायः, स्वकारणसमवायो वा कार्यत्वमुच्यते । न च नाशे सत्तासमवायः स्वकारणसमवायो वा; तस्य द्रव्यादिवदस्तित्वाश्रयत्वप्रसङ्गात्
॥ ३६३-३६४ ॥
यद्येवम्, भवतु वस्तुत्वम्, नाशस्य तत्र को दोष: ? इत्याहविधिनैवमभावश्च पर्युदासाश्रयात् कृतः ।
यस्तत्र व्यतिरेकादिविकल्पो वर्त्तते पुनः ॥ ३६५ ॥
कथं पुनरभावस्य विधिना करणम् ? इत्याकांक्षायामिदमुक्तम्- पर्युदासा श्रयादिति । पर्युदासस्याश्रयणादित्यर्थः । विवक्षावंशाद्धि कुतश्चन भावाद् विलक्षणो भाव एव 'अभाव: ' इत्याख्यायते, तत्र च व्यतिरेकादिविकल्पे प्राक्तनो दोष: पुनरावर्त्तते ॥ ३६५ ॥
अथैतद्दोषभयान्न पर्युदासात्मकोऽभावो विनाशहेतुभिः क्रियते, किं तर्हि ? 'प्रसज्यात्मक इत्यङ्गीक्रियते । तत्रापि विनाशहेतोः स्फुटतरमेवाकिञ्चित्करत्वं भवता प्रतिपादितमिति दर्शयन्नाह -
अथ क्रियानिषेधोऽयं भावं नैव करोति हि ।
तथाप्यहेतुता सिद्धा कर्तुर्हेतुत्वहानित: ॥ ३६६॥
[G. 136] तथा हि- प्रसज्यतिषेधे सति नञः करोतिना सम्बन्धादभावं करोति । भावं न करोतीति क्रियाप्रतिषेधादकर्तृत्वं नाशहेतोः प्रतिपादितं भवेत्, यश्चाकर्त्ता स कथं हेतुः स्यादित्यतो न विनाशहेतुः कश्चित् ॥ ३६६ ॥
अत्राविद्धकर्णोक्तानि विनाशस्य हेतुमत्त्वसाधने प्रमाणानि निर्दिर्दिक्षुराहननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः ।
न पूर्व न चिरात् पश्चाद् वस्तुनोऽनन्तरं त्वसौ ॥ ३६७॥ २. पा०, गा० पुस्तकयोर्नास्ति ।
१. प्रसज्यत्मक- पा०: प्रसज्यप्रतिषेधात्मक गा० ।