________________
स्थिरभावपरीक्षा
१२१ तदव्यतिरेकिणो निष्पनत्वात्। न च निष्पन्नस्य कारणं' युक्तम्; 'कारणाविरामप्रसङ्गात् ॥ ३५८॥
स्यादेतृत्-नासौ भावः स्वहेतोः सर्वात्मना निष्पन्नः, अत: कारणान्तरतो नाशाख्यं स्वभावान्तरं लभते? इत्याह
न चानंशे समुद्भूते भावात्मन्यात्महेतुतः।
तदात्मैव विनाशोऽन्यैराधातुं पार्यते पुनः ॥ ३५९॥ [G.134] न ह्येकस्य स्वभावद्वयमस्ति, येनांशेन निष्पत्तिः स्यात्, किं तु निरंश एव भावः । स च स्वहेतोरुत्पद्यमानः सर्वात्मनैवोत्पन्न इति कथं तस्योत्तरकालं कारणान्तरैः स्वभावान्तरमाधीयेत! न हि यन्निष्पत्तौ यो न निष्पन्नः स तस्य स्वभावो युक्तः; एकयोगक्षेमलक्षणत्वादभेदस्य। तस्माद्योऽसावुत्तरकालमुत्द्यते नाशात्मा भावः सोऽपरः स्वभावः स कथं तस्य भवेदिति यत्किञ्चिदेतत्॥ ३५९॥ । अथार्थान्तरभूत इति पक्षः, तत्राप्यकिञ्चित्कर एव विनाशहेतुर्भावस्येति दर्शयति
पदार्थव्यतिरिक्ते तु नाशनाम्नि कृते सति। . भावे हेत्वन्तरैस्तस्य न किञ्चिदुपजायते ॥ ३६०॥
तेनोपलम्भकार्यादि प्राग्वदेवानुषज्यते। न ह्यन्यस्य करणेऽन्यदुपकृतं नाम; अतिप्रसङ्गात्। नापि तत्सम्बन्धिनो नाशस्य करणाद्भाव उपकृतो भवतीति युक्तं वक्तुम् सम्बन्धासिद्धेः। तथा हि-भेदाभ्युपगमान्न तादात्म्यलक्षण: सम्बन्धः, नापि तदुत्पत्तिलक्षणः; विनाशहेतोरेव तदुत्पत्तेः, न चान्यो वास्तवः सम्बन्धोऽस्ति। सत्यपि वा सम्बन्धे भावस्यावस्थितत्वात् तथैवोपलम्भादि-कार्यप्रसङ्गः। उपलम्भ एव कार्यम्। आदिशब्देन जनसन्धारणजङ्गाभङ्गादिपरिग्रहः। तेन व्यतिरिक्तेन नाशेनावृतत्वात् प्रतिबद्धत्वाद्वा नोपलम्भादिकार्यं करोतीति चेत् ? आह
... तादवस्थ्याच्च नैवास्य युक्तमावरणाद्यपि ॥३६१॥
न हि भावस्य स्वभावातिशयमखण्डयन्ननुत्पादयन् वा तस्याऽऽवरकः प्रतिबन्धको वा युक्तः; अतिप्रसङ्गात् । तस्मादत्यक्तानावृताप्रतिबद्धपूर्वस्वभावत्वात् तस्यावरणं प्रतिबन्धश्च न युज्यते ॥३६०-३६१॥ .
स्यादेतत्-न प्राग्वदुपलब्ध्यादिप्रसङ्गः, तेन व्यतिरिक्तेन नाशेन भावस्य विनाश्यमानत्वादित्याह
नाशनाम्ना पदार्थेन भावो नाश्यत इत्यसत्।
अन्यत्वादिविकल्पानां तत्राप्यर्थानुवृत्तितः॥३६२॥ नाशो हि भावं नाशयन्किमन्यम्, अनन्यं वा, यद्वा प्रध्वंसलक्षणं नाशं कुर्वाणो नाशयति मुद्गरादिवदित्यत्रापि तुल्या एव विकल्पाः पुनरावर्तन्ते। तत्र चोक्तो दोषः, [G.135] वक्ष्यते च-तत्राप्यन्या (तत्त्व० ४०३) इति । योऽसौ नाशनाम्नाऽपरो नाशः क्रियते, तत्रापि। १. करणं- जै०।
२. करणावि०-जै०। ३-३. तत्रापति-पा०, गा० ।