________________
१२०
तत्त्वसंग्रहे निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा।
विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः ॥ ३५५॥ प्रयोगः-ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः, यथा-समनन्तरफला सामग्री स्वकार्योत्पादने नियता । विनाशं प्रत्यनपेक्षाश्च सर्वे जन्मिनः कृतका भावा इति स्वभावहेतुः । हेत्वन्तरमिति । जनकाव्यतिरिक्तम्। नियतमित्यत्र कारणमाह-स्वहेतुभ्य इति । तथा–तेन नियतेन रूपेणोत्पन्नत्वादित्यर्थः। ये तु पुनर्यत्र न नियताः, ते तत्रानपेक्षा अपि न भवन्त्येव, यथा घटादयोऽपक्वाः पाकादिष्वितीदमत्र वैधये॒णोदाहरणम् ॥ ३५४-३५५ ॥
ननु चानैकान्तिको हेतुः, तथा हि-यदि नाम विनाशं प्रति हेत्वन्तरानपेक्षा भावाः, तथापि स्थित्वा देशान्तरे कालान्तरे च भावस्य विनाशसम्भवादुदयानन्तरापवर्गित्वमभीष्टमेषां साधयितुं न सिध्यति? इत्याह
_ [G.133] अनपेक्षोऽपि यद्येष देशकालान्तरे भवेत्। ..
तदपेक्षतया नैष निरपेक्षः प्रसज्यते ॥.३५६॥ एष इति विनाशः। तदपेक्षयेति देशकालान्तरापेक्षतया। यो हि'यत्रानपेक्षः स यदि क्वचिद्भवेत्, कदाचिद्वा, तदा तद्देशकालापेक्षत्वादनपेक्ष एव न स्यादिति कुतो व्यभिचारः ! तथा हि-एकदेशकालापरिहारेणान्यत्र देशकालादौ वर्तमानः कथमनपेक्षो नाम; यतस्तथावृत्तिरेव तस्यापेक्षा, न तु समीहा; तस्याभिप्रायशून्यत्वात् ॥ ३५६॥
यदि तर्हि सर्वथा निरपेक्षत्वादिति हेत्वर्थोऽभिप्रेतः, न तर्हि हेतुः सिद्धः । तथा हि-केचिद्विनाशं प्रति मुद्गरादिकमपेक्षमाणा दृश्यन्ते, यथा-घटादयः । येऽपि बुद्धिशब्दादयोऽनपेक्षत्वेन प्रसिद्धाः, तेऽपि यदि नाम मुद्गरादिकं नापेक्षन्ते, तथापि देशकालावपेक्षन्त इत्यतोऽसिद्धता हेतोः?–इत्याशङ्कय परिहरन्नाह
सर्वत्रैवानपेक्षाश्च विनाशे ज़न्मिनोऽखिलाः।
सर्वथा नाशहेतूनां तत्राकिञ्चित्करत्वतः ॥ ३५७॥ सर्वत्रैवेति सर्वस्मिन् देशकालादिके विनाशहेतौ निरपेक्षा जन्मिन इत्यर्थः । नाशहेतुत्वेनाभ्युपेतानामकिञ्चित्करत्वादनुपकारित्वात्। न चानुपकार्यपेक्षो युक्तः; अतिप्रसङ्गात् ॥ ३५७॥ कथमकिञ्चित्करत्वम् ? इत्याह
तथा हि नाशको हेतुर्न भावाव्यतिरेकिणः।
नाशस्य कारको युक्तः स्वहेतो वजन्मतः ॥३५८॥ विनाशो हि क्रियमाणः कदाचिद्वस्तु वा स्याद् ? अवस्तु वा? तत्र यदि वस्तु, तदाऽसौ विनाशहेतुना ततो विनाशहेतो वादनान्तरभूतो वा क्रियेत, अर्थान्तरभूतो वा! वस्तुसतो विकल्पद्वयानतिवृत्तेरुभयानुभयपक्षस्त्वयुक्त एव; वस्तुन्येकाकारत्यागपरिग्रहयोस्तदपराकारपरिग्रहत्यागनान्तरीयकत्वात्। एकस्य विधिप्रतिषेधोभयायोगादित्युक्तम्। तत्र न तावदनान्तरभृत इति पक्षः : भावस्वभावस्य स्वहेतोरेव जन्मत उत्पत्तेः । तस्यापि भाववत्