________________
८. स्थिरभावपरीक्षा
आचार्यस्य प्रतिज्ञा 'चलम्' इत्येतद्विशेषणसमर्थनार्थमाह
अथ वाऽस्थान एवयमायासः क्रियते यतः। क्षणभङ्गप्रसिद्ध्यैव प्रकृत्यादि निराकृतम् ॥३५०॥ उक्तस्य वक्ष्यमाणस्य जात्यादेश्चाविशेषतः।
निषेधाय ततः स्पष्टं क्षणभङ्गः प्रसाध्यते ॥३५१॥ निरवशेषपदार्थव्यापिनः क्षणभङ्गस्य प्रसाधनादेव प्रकृतीश्वरादेः परपरिकल्पितस्य सकलपदार्थराशेरेकप्रहारेणैव निरस्यमानस्यापि सतो यदिदमस्माकमतिग्रन्थविस्तरसन्दर्भेण प्रतिपदमुच्चार्य दूषणोपक्रमणम्, तत्केवलमायासफलमेव; स्वल्पोपायेनैव तस्य दूषितत्वादिति भावः। तथा हि-सर्वमेव प्रकृत्यादि परैरुदयानन्तरापवर्गि निरन्वयनिरोधधर्मकं वा कैश्चिन्नेष्यते। ततश्चैतत् समस्तवस्तुव्यापकक्षणभङ्गप्रसाधनेनैव निरस्तं भवतीति मन्यमानैरस्माभिरुक्तस्य प्रकृत्यादेः पुद्गलपर्यन्तस्य वक्ष्यमाणस्य च जातिगुणद्रव्यादेः शब्दार्थयोः प्रमाणप्रमेययोर्मेचकादिमणिप्रख्यचित्रस्य वस्तुनस्त्रिकालानुयायिनो भावस्य चार्वाकादयुपगतस्य च भूतचतुष्टयस्य जैमिनीयेष्टस्य च वैदिकशब्दराशेर्निरासाय विशेषेण क्षणभङ्गः प्रसाध्यते।
स्पष्टमिति । तत्साधकस्य हेतोस्त्रिरूपस्य प्रदर्शनात्। अतोऽस्यामेव स्थिरभावपरीक्षायां सकलशास्त्रार्थपरिसमाप्तिर्भवतीत्युक्तं भवति ॥ ३५०-३५१॥ [G.132] कथंमसौ प्रसाध्यते? इत्याह
कृतकाकृतकत्वेन द्वैराश्यं कैश्चिदिष्यते। . क्षणिकाक्षणिकत्वेन भावानामपरैर्मतम् ॥३५२॥
इह हि नैयायिकादयः-'क्षणिकमेकमपि वस्तु नास्ति' इति मन्यमानाः कृतकाकृतकत्वेन भावानां द्वैराश्यमवस्थापयन्ति । तत्र केचित् कृतकाः, यथा-घटादयः; केचिदकृतकाः, यथा-परमाण्वाकाशादयः। अपरैस्तु वात्सीपुत्रीयादिभिः क्षणिकाक्षणिकत्वेनापि भावानां द्वैराश्यमिष्यते। तथा हि-बुद्धिशब्दार्चि:प्रभृतयस्तन्मतेन क्षणिकाः, क्षितिव्योमादयस्त्वक्षणिका इति ॥ ३५२॥
तदेवं दर्शनविभागेऽवस्थिते ये कृतकत्वेनाभीष्टाः, ताँस्तावत् पक्षीकृत्य प्रमाणमभिधीयत इति दर्शयन्नाह
तत्र ये कृतका भावास्ते सर्वे क्षणभङ्गिनः।
विनाशं प्रति सर्वेषामनपेक्षतया स्थितेः ॥ ३५३ ॥ विनाशं प्रति सर्वेषां हेत्वन्तरानपेक्षतया स्थितत्वादित्यनेन हि त्रिलक्षणो हेतुः सूचितः । तमेव स्पष्टयन्नाह
यद्भावं प्रति यत्नैव हेत्वन्तरमपेक्षते। तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात् ॥ ३५४॥