________________
११८
तत्त्वसंग्रहे द्रव्यसन् परपरिकल्पितो विज्ञायतेति प्रदर्शनार्थम् । अवश्यं चैवं विज्ञेयम्, अन्यथा भारादीनामपि स्कन्धेभ्यः पृथग्देशितत्वात् पुद्गलवत् स्कन्धानन्तर्गतं तत् स्यात् । तस्मात्त एव स्कन्धान्तरस्योत्पादाय वर्तन्ते पूर्वकाः, ते भार इति कृत्वोक्ताः। ये तूपेष्यन्ते फलभूतास्ते भारहारा इत्युक्ताःइत्यज्ञापकमेतत्।
उद्द्योतकरस्त्वाह-"आत्मानमनभ्युपगच्छता नेदं तथागतवचनमर्थवत्तायां शक्यं व्यवस्थापयितुम्, यस्मादिदमुक्तम्-रूपं भदन्त नाहम्, वेदना, संज्ञा, संस्कारः, विज्ञानं भदन्त नाहम् एवमेतद्भिक्षो रूपं न त्वम्, वेदना, संज्ञा, संस्कारः, विज्ञानं न त्वम्" ( ) इति। एतेन हि रूपादयः स्कन्धा अहङ्कारविषयत्वेन प्रतिषिद्धाः। विशेषप्रतिषेधश्चायं न सामान्यप्रतिषेधः । आत्मानं चानभ्युपगच्छता सामान्येनैव प्रतिषेद्धव्यम्; नैव त्वमसीति।
विशेषप्रतिषेधस्त्वन्यविधिनान्तरीयको भवति । यथा-'वामेनाक्ष्यां न पश्यामि' इत्युक्ते गम्यत एव दक्षिणेन पश्यामीति; तेनाप्यदर्शने वामग्रहणमनर्थकम्; न [G.131] पश्यामीत्येव वाच्यं स्यात्; तथेहापि न रूपमात्मा यावत्रं हि विज्ञानमात्मा' इत्युक्ते तद्विलक्षणोऽस्त्यात्मेति सूचितं भवति । स चावाच्योऽन्यो वा भवतु, सर्वथाऽस्त्यात्मनेप्ति। अत्राह
विशेषप्रतिषेधश्च तदृष्टीन् प्रति राजते ॥ ३४९॥ एतदुक्तं भवति–विंशतिशिखरसमुद्गतोऽयं सत्कायदृष्टिशैलः कुंमतीनां प्रवर्त्ततेयदुत रूपमात्मा, यावद्विज्ञानमात्मा, रूप आत्मा, यावद्विज्ञाने आत्मा, रूपवानात्मा, यावद्विज्ञानवानात्मा, आत्मनि रूपम्, यावद्विज्ञानमात्मनि' इति । तत्राद्यदृष्टिपञ्चकप्रतिषेधाय तदृष्टिकान् प्रति विशेषरूपेण प्रतिषेधः शोभते । सा रूपमात्मेत्यादिका दृष्टिर्येषां ते तदृष्टिकाः। यदेव हि मूढमतेराशङ्कास्थानं तदेवानूद्य निवर्त्यते। न त्वत्र कस्यचिद्विधिरभिप्रेतः; अन्यथा ह्यश्रोतृसंस्कारकं वाक्यं ब्रुवाणोऽपेक्षावानेव प्रतिपादकः स्यादिति ॥ ३४९ ॥
इति वात्सीपुत्रीयपरिकल्पितात्मपरीक्षा ॥
१. पदेशनार्थ:-गा।