________________
आत्मपरीक्षा
११७ आगमार्थविरोधे तु पराक्रान्तं महात्मभिः । यदि हि पुद्गलो धर्मी सिद्धो भवेत् तदा तस्य तत्त्वान्यत्वादिधर्मोऽव्याकृतमर्हेत्। यावता स एव धर्मी न सिद्धः, तत्कथमसतस्तस्य धर्मो निर्दिश्येत ! न ह्यसतः खरविषाणादेस्तीक्ष्णतादि सम्भवति येनासौ व्याक्रियते। अतः प्रज्ञप्तिसत्त्वमेव ख्यापयन् पुद्गलस्य "अव्याकृतमेतत्" इति भगवानुवाच । नास्तीत्येवं तु नोक्तम्; परेण धर्मिस्वरूपस्यापृष्टत्वात्। अथ वा-प्रज्ञप्तिसतोऽप्यभावाभिनिवेशपरिहारार्थं शून्यतादेशनायामभव्यविनेयजनाशयापेक्षया नास्तीत्येव नोक्तम्। यथोक्तम्
"दृष्टिद्रष्टव्यभेदं च भ्रंशं चावेक्ष्य कर्मणाम्।
देशयन्ति जिना धर्मं व्याघ्रीपोतापहारवत् ॥" (अभि० को० भा०) इत्येवमाचार्य वसुबन्धुप्रभृतिभिः कोश-परमार्थसप्ततिकदिष्वभिप्रायप्रकाशनात् पराक्रान्तम्, अतस्तत एवावगन्तव्यम् । इह त्वतिग्रन्थविस्तरभिया न लिख्यत इति भावः।
यद्येवम्, “अस्ति सत्त्व उपपादकः" (दी० नि० १.१.१) इत्येतत् कथं नीयते? इत्याह
. नास्तिक्यप्रतिषेधाय चित्रा वाचो दयावतः ॥३४८॥ सत्त्वास्तित्वाभिधायिन्यो हि देशनाश्चित्रा दयावतः, न विरुध्यन्त इति वाक्यशेषः । यत्र हि चित्तसन्ताने सत्त्वप्रज्ञप्तिः, तस्यां सत्यामनुच्छेदमभिसन्धाय "अस्ति सत्त्व" इत्युक्तं भगवता; अन्यथा ह्यनुपरतकार्यकारणक्षणपरम्पराणामपि संस्काराणामभावावगमात् परलोकिनोऽसत्त्वात् परलोकासिद्धिरिति नास्तिक्यदृष्टयो भवेयुर्विनेयाः ॥ ३४८॥
... भारहारादिदेशनौचित्यम् [G.130] यत्तींदमुक्तम्-"भारं वो, भिक्षवो, देशयिष्यामि भारादानं भारनिक्षेपं भारहारं च। तत्र भार:=पञ्चोपादानस्कन्धाः, भारादानम्=तृष्णा', भारनिक्षेपः=मोक्षः, भारहार:= पुद्गलाः" (सं.० नि० स्क० सं०, २२ सू०) इति, तदेतत् कथं नीयते, न हि भार एव भारहारो युक्तः? इत्याह
समुदायादिचित्तेन भारहारादिदेशना। तत्र समानकालाः स्कन्धा एव सामस्त्येन विवक्षिताः समुदायव्यपदेशभाजः, त एव हेतुफलभूताश्च युगपत्कालभाविनः सन्तान इति व्यपदिश्यन्ते, एकाकारपरामर्शहेतवश्च सम्भवन्तः सन्तानि-समुदायिशब्दाभ्यां निर्दिश्यन्त इत्यतः, समुदायादिचित्तेन=समुदायाद्यभिप्रायेण, भारहारादिदेशना, न विरुध्यत इति शेषः । प्रथमेनादिशब्देन सन्तानादिपरिग्रहः, द्वितीये भारादेः. तत्र त एव स्कन्धाः समुदायसन्तानादिरूपेण विवक्षिताः, पुद्गलः, भारहार इति च व्यपदिश्यन्ते; तत्रैव लोके पुद्गलाभिधानात्। अत एव भगवता-"भारहार: कतमः पुद्गलः?" (सं०नि०, स्क० सं०, २२ सू०) इत्युक्त्वा, "योऽसावायुष्मन्नेवनामा, एवंजातिः, एवंगोत्रः, एमाहारः, एवंसुखदुःखप्रतिसंवेदी, एवंदीर्घायुः" (सं०नि०,स्क० सं०, २२ सू०) इत्यादिना पुद्गलो व्याख्यातः। स एवं स्कन्धसमुदायलक्षणः प्रज्ञप्तिसन् यथाविज्ञायेत, नान्यो नित्यो १. तृप्ति:- पा०, गा०।
२. सन्नन्यथा-पा०, गा०।