________________
११४
तत्त्वसंग्रहे कर्मभेदानां कर्ता, स्वकृतकर्मफलस्य चेष्टानिष्टस्य च भोक्ता, यश्च पूर्वस्कन्धपरित्यागादपरस्कन्धान्तरोपादानात् संसरति भोक्ता च स आत्मेति । एतच्च सर्वं पुद्गलेऽपीष्टमिति केवलं नाम्नि विवादः ॥ ३३६॥ अथ पुद्गलस्यावाच्यत्वे का पुनर्युक्तिः ? इत्याह
स्कन्धेभ्यः पुद्गलो नान्यस्तीर्थदृष्टिप्रसङ्गतः।
नानन्योऽनेकताद्याप्तेः साध्वी तस्मादवाच्यता॥३३७॥ यदि स्कन्धेभ्योऽन्यः पुद्गलः स्यात्, तदानीं तैर्थिकपरिकल्पि तात्म-[G.126] दृष्टिर्भवेत्, ततश्च शाश्वतात्मप्रसङ्गः। न च शाश्वतस्यात्मन: कर्तृत्वभोक्तृत्वादि युक्तम्; आकाशवत् तस्य सर्वदा निर्विशिष्टत्वात् । प्रतिषिद्धश्च भगवता शाश्वत आत्मा। "निरात्मानः सर्वे धर्माः" : ) इति च वचनं व्याहन्येत। अनन्यस्तर्हि भवतु? इति चेदाह- नानन्य इत्यादि । यदि हि स्कन्धा एव रूपादयः पुद्गलः स्यात्, तदा बहुभ्यः स्कन्धेभ्योऽनन्यत्वात् तत्स्वरूपवदनेकता प्राप्नोति पुद्गलस्य, एकश्चेष्यते। यथोक्तम्-"एक: पुद्गली लोक उत्पद्यमान उत्पद्यते यद्वत् तथागतः" ( ) इति। आदिशब्देनानित्यत्वादिपरिग्रहः। एवं च सति उच्छेदित्वं स्कन्धवत् पुद्गलस्यापि, ततश्च कृतकर्मविप्रणाशप्रसङ्गः । प्रतिषद्धश्च भगवतोच्छेदवाद इत्यतः-अस्त्यवाच्यः पुद्गल इति सिद्धम् ॥ ३३७॥ ..
ते वाच्याः-पुद्गलो नैव विद्यते पारमार्थिकः। ..
तत्त्वान्यत्वादवाच्यत्वान् नभःकोकनदादिवत् ॥३३८॥ ते वाच्या इत्यादिना "वस्तुवत् पुद्गलो न भवति; अवाच्यत्वात्" इति स्ववचनादेव भवद्भिः प्रतिपादितमिति दर्शयति। प्रयोगः-यद्वस्तुनः सकाशात्तत्त्वान्यत्वाभ्यां वाच्यं न भवति न तद्वस्तु, यथा-गगननलिनम्। न भवति च वाच्यः पुद्गल इति व्यापकानुपलब्धः। वैधhण वेदनादि ॥३३८॥ कथं पुनरत्र व्याप्तिः सिद्धा? इत्याह- ।
अन्यत्वं वाऽप्यनन्यत्वं वस्तु नैवातिवर्त्तते।
वस्तुतो यत्तु नीरूपं तदवाच्यं प्रकल्प्यते ॥३३९॥ वस्तुनो हि सकाशाद्वस्तु नैव तत्त्वान्यत्वे व्यतिक्रामति; गत्यन्तराभावात्, अन्यथा रूपादीनामपि परस्परतोऽवाच्यत्वं स्यात् । तस्मानीरूपमस्वभावमेवावाच्यं प्रकल्प्यते, न तु वस्तु ॥ ३३९॥ कथम्? इत्याह
भेदाभेदविकल्पस्य वस्त्वधिष्ठानभावतः । तत्त्वान्यत्वाद्यनिर्देशो नि:स्वभावेषु युज्यते॥३४०॥ न वस्तुनि यदेतद्धि तन्नेति प्रतिषेधनम्। तद्वस्त्वन्तरवत् तस्माद् व्यक्तमन्यत्वमुच्यते॥ ३४१॥ अतद्भावनिषेधश्च तत्त्वमेवाभिधीयते। नातिक्रामति तद्वस्तु तत्त्वं भेदं च वस्तुनः ॥ ३४२॥