________________
आत्मपरीक्षा
११५ [G.127] वस्त्वेव हि भेदाभेदविकल्पयोरधिष्ठानम्, नावस्तु। तेन तत्त्वान्यत्वाद्यनिर्देशों नि:स्वभावेष्वेव-स्वभावविरहितेष्वेव युज्यते। न वस्तुनि तत्त्वान्यत्वाद्यनिर्देशो युज्यत इति सम्बन्धः; तत्र भेदाभेदाभ्यां गत्यन्तराभावात् । कथं पुनर्गत्यन्तराभावः? इत्याह- यदेतद्धी त्यादि । तथा हि-रूपादिस्वभावः पुद्गलो न भवतीति यदेतन्नेति' निषेधनम्, तत्तस्माद्रूपादेः सकाशादन्यत्वमेवाभिधीयते; स्वभावान्तरविधिनान्तरीयकत्वाद्वस्तुनो वस्त्वन्तरभावनिषेधस्य। प्रयोगः-यद्वस्तु यत्स्वभावविरहितं तत्ततोऽन्यत्, यथा-रूपं वेदनातः । रूपादिस्वभावविरहि च पुद्गलाख्यं वस्तु-इति स्वभावहेतुः।
यश्चायं वस्तुनोऽतद्भावनिषेधः अतद्रूपनिषेधः, स तत्त्वमव्यतिरेक एवाभिधीयते; तत्त्वविधिनान्तरीयकत्वाद् वस्तुसतोऽर्थान्तरभावनिषेधस्य । अन्यथा हि यदि तस्य न कश्चित् स्वभावो विधीयते, तदा सर्वस्वभावनिषेधादवस्तुत्वमेव स्यात्; सर्वस्वभावनिषेधलक्षणत्वादवस्तुत्वस्येति। प्रयोगः-यद्वस्तु यतोऽर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वं तत्तदेव, यथा-रूपं स्वस्वभावादर्थान्तरत्वेन प्रतिषिद्धात्मतत्त्वम्। प्रतिषिद्धात्मतत्त्वश्च रूपादिभ्योऽर्थान्तरत्वेन पुद्गल इति स्वभावहेतुः। तत्तस्माद् वस्तुनः सकाशात् तत्त्वान्यत्वे वस्तु नातिक्रामतीति सिद्धा व्याप्तिौलस्य हेतोः ॥ ३४०-३४२॥ . .
एवं तावदवाच्यत्वाभ्युपगमे प्रज्ञप्तिसत्त्वं पुद्गलस्य प्राप्तमिति प्रतिपादितम्। इदानीं वस्तुत्वाभ्युपगमे वा पुद्गलस्यावाच्यत्वमयुक्तम्; अन्यथा स्ववचनविरोध: प्रतिज्ञायाः स्यात्इति मन्यमानो निगमयति
स्कन्धेभ्यः पुद्गलो नान्य इत्येषाऽनन्यसूचना। . :स्कन्धो न पुद्गलश्चेति व्यक्ता तस्येयमन्यता ॥३४३॥
अपि च-'अवाच्यः पुद्गलः' इति ब्रुवाणैर्भवद्भिः स्फुटतरमेव स्कन्धेभ्यः पुद्गलस्यान्यत्वमुच्चैरुद्धोषितमिति दर्शयति
विरुद्धधर्मसंश्लेषो वस्तूनां भेद उच्यते।
स्कंन्धपुद्गलयोश्चैष विद्यते भिन्नता न किम्॥३४४॥ प्रयोगः-यौ परस्परपरिहारस्थितधर्माध्यासितौ, तौ परस्परभिन्नौ, यथा-रूपवेदने मूर्तत्वामूर्त्तत्वयुक्ते। वाच्यत्वावाच्यत्वादिपरस्परविरुद्धधर्माध्यासितौ च स्कन्धपुद्गलाविति स्वभावहेतुः ॥ ३४४।। [G.128] न चायमसिद्धो हेतुरिति दर्शयन्नाह
तथा हि वेदनादिभ्यः पुद्गलोऽवाच्य उच्यते।
तत्त्वान्यत्वेन वाच्यास्तु रूपसंज्ञादयस्ततः ॥३४५ ।। तथा हि पुद्गलो वेदनासंज्ञादिभ्यस्तत्त्वान्यत्वाभ्यामवाच्य इष्यते। रूपवेदनादयस्तु ततः वेदनादिभ्यः, परस्परमन्यत्वेन वाच्याः-इत्यतो नासिद्धता हेतोः ॥ ३४५ ॥ इतोऽपि विरुद्धधर्माध्यासः सिद्ध इत्यादर्शयति
अनित्यत्वेन वाच्याश्च रूपस्कन्धादयो मताः। १. भवति- जै०। २. यदेतत्तनिषेधनम्-पा० गा०। ३. विरुद्धधर्मसङ्गो हि-पा०. गा०। ४. ०श्चैव-पा०. गा० ।