________________
आत्मपरीक्षा
११३
च परिशुद्धतरतमज्ञानोत्पादादपरिशुद्धज्ञानसन्ताननिवृत्तेरपवर्गः प्राप्यत इति सफलो मोक्षप्राप्त
प्रयास: ।
यस्य तु पुनर्भवतो नित्यैकज्ञानस्वभाव आत्मेति पक्षः, तस्य कथमेकज्ञानात्मके पुंसि बन्धमोक्षौ भवतः । तथा हि-यदि विपर्यस्तस्वभावमेकं ज्ञानं सदा ? तदाऽपरस्यावस्थान्तरस्याभावान्न मोक्षव्यवस्था स्यात् । अथाविपर्यस्तम् ? तदा नित्यं परिशुद्धस्वभावत्वान्न बन्धः स्यात्। अस्माकं तु सन्तानभेदेन विज्ञप्ति: संक्लिष्टा शुद्धा चेष्यत इति युक्ता बन्धनमोक्षव्यवस्था। यथोक्तम्
" संक्लिष्टा च विशुद्धा च समला निर्मला च सा । संक्लिष्टा चेद्भवेन्नासौ मुक्ताः स्युः सर्वदेहिनः ॥ विशुद्धा चेद्भवेन्नासौ व्यायामो निष्फलो भवेत्" । इति (म० वि० सू० ) ॥ ३३३॥ [G.125] अथापि स्यात् - कल्पितावेव बन्धमोक्षौ न पारमार्थिकाविति ? तदत्र कल्पनाया अपि निबन्धनं वाच्यम् । अनित्यज्ञानपक्षे तु निबन्धनमुपदर्शितमेव । ततश्च योऽयं भवतामपवर्गप्राप्तये संसारसमतिक्रमाय च तत्त्वभावनाप्रयत्नः, स केवलमायासफल एवेति दर्शयतिकिं वा निवर्त्तयेद् योगी योगाभ्यासेन साधयेत् ।
किं वा न हातुं शक्यो हि विपर्यासस्तदात्मकः ॥ ३३४ ॥ तत्त्वज्ञानं न चोत्पाद्यं तादात्म्यात् सर्वदा स्थितेः । योगाभ्यासोऽपि तेनायमफलः सर्व एव च ॥ ३३५ ॥
किं वेत्यादि । यदि हि तत्त्वभावनया योगी किञ्चिन्निवर्त्तयेत् प्रवर्तयेद्वा, तदा स्यादस्य सफलः प्रयासः, यावता न तावदसौ विपर्यासं निवर्त्तयति; यस्मादसौ विपर्यासस्तदात्मकः = नित्यज्ञामात्मकः, तस्मान्न हातुं शक्यः; नित्यस्याविनाशितया त्यागसम्भवात् । नापि तत्त्वज्ञानं भावनया साधयति; नित्यज्ञानात्मतया सर्वदा तत्त्वज्ञानस्यावस्थितत्वात् । तस्मान्न युक्तमेतत् ।। ३३४-३३५ ॥
इत्यौपनिषदिकात्मपरीक्षा ॥
६. वात्सीपुत्रीयपरिकल्पितात्मपरीक्षा
केचित्तु सौगतम्मन्या अप्यात्मानं प्रचक्षते ।
पुद्गलव्यपदेशेन तत्त्वान्यत्वादिवर्जितम् ॥ ३३६ ॥
I
केचिदिति वात्सीपुत्रीयाः । ते हि सुगतसुतमात्मानं कल्पयन्ति । ये हि नाम भगवतो नैरात्म्यवादिनस्सुगतस्य सुतत्वमभ्युपगतास्ते कथमिव वितथात्मदृष्टिमभिनिविष्टास्स्युरिति दर्शयन्नुपहासपदमाह– सौगतम्मन्या अपीति । तथा हीदमात्मनो लक्षणम् - यो हि शुभाशुभ
वात्सीपुत्रीयपरिकल्पितपुद्गलप्रतिषेधार्थमाह