________________
११२
तत्त्वसंग्रहे एक्रज्ञानात्मकत्वे तु रूपशब्दरसादयः।
सकृद्वेद्याः प्रसज्यन्ते नित्येऽवस्थान्तरं न च ॥३३१॥ अल्पापराधमिति । ज्ञानमात्रस्य युक्त्युपेतस्याभ्युपगमात्। यद्येवम्, स्वल्पोऽपि किमिति तत्रापराध उच्यते? इत्याह-नित्यतोक्तित इत्यादि । कस्मात् पुनर्नित्यत्वाभ्युपगमो न युक्तः? इत्याह-रूपशब्दादीत्यादि । नित्यता हि नाम तादवस्थ्यमुच्यते, अतादवस्थ्यं त्वनित्यता। न च रूपशब्दादिप्रतिभासिविज्ञानमेकावस्थं सर्वदाऽनुभूयते; किन्तु क्रमेण-कदाचिद्रूपप्रतिभासम्, अन्यदा च शब्दादिप्रतिभासम्। तद्यदि नित्यैकज्ञानप्रतिभासात्मका अमी शब्दादयः स्युः, तदा विचित्रास्तरणप्रतिभासवत् सकृदेव प्रतिभासरेन्; तत्प्रतिभासात्मकस्य ज्ञानस्य सर्वदाऽवस्थितत्वात्।
अथापि स्यात्-अवस्थान्तरमेतत् क्रमेण शब्दादिप्रतिभासं ज्ञानस्योत्पद्यते, तेन सकृदेव शब्दादिसंवेदनं न भविष्यति? इत्याह-नित्येऽवस्थान्तरं न चेति । अवस्थानामवस्थातुरन्यत्वादवस्थावदवस्थातुरपि नाशोत्पादौ स्याताम्। अवस्थातृवद्वाऽवस्थानामपि नित्यत्वप्रसङ्गः। व्यतिरेके चावस्थानां तस्यैता इति सम्बन्धासिद्धिः; उपकाराभावात्। [G.124] नित्यैकविज्ञानमात्राभ्युपगमविरोधश्च ॥ ३३०-३३१॥
किञ्च-नित्यस्य ज्ञानात्मनः प्रत्यक्षतो वा सिद्धिर्भवेद्? अनुमानतो वा? न तावत् प्रत्यक्षत इति दर्शयति- रूपादिवित्तितो भिन्नं न ज्ञानमुपलभ्यते।
तस्याः प्रतिक्षणं भेदे किमभिन्नं व्यवस्थितम्॥ ३३२॥ न हि क्रमप्रतिभासिरूपादिसंविद्व्यतिरेकेण नित्यैकरूपमवस्थातृ ज्ञानमनुभूयते, येन प्रत्यक्षतः सिद्धिः स्यात् । तस्याश्च रूपादिसंवित्तेः क्रमेणानुभूयमानायाः प्रतिक्षणं ध्वंसे सिद्धे किमपरमभिन्नमस्तीति वाच्यम्। तस्मादुपलब्धिक्षणप्राप्तस्य तथाविधज्ञानात्मनोऽनुपलब्धेरसद्व्यवहारविषयतैवेति भावः। - न चाप्यनुमानतः सिद्धिरिति मन्यते। तथा हि-अनुमानं भवत् स्वभावलिङ्ग वा भवेत् ? कार्यं वा? न तावत् स्वभावः, तथाभूतस्य कस्यचिद्धर्मिणोऽसिद्ध्या तत्स्वभावासिद्धेः । ज्ञानमात्रे च धर्मिणि सिद्धेऽपि तस्य नित्यत्वधर्मेण कस्यचित्तद्धर्मस्य व्याप्त्यसिद्धेः। नापि कार्यं लिङ्गम्, नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियानुपपत्तेः; तत्कार्यस्य कस्यचिदभावात्। तव्यतिरेकेणापरस्य कार्यस्यानभ्युपगमाच्च । तदेवं न किञ्चित् तथाभूतस्य ज्ञानात्मनः साधकं प्रमाणमस्ति, बाधकं तु प्रत्यक्षादि विद्यत इत्ययुक्तो नित्यज्ञानविवर्त्तः ॥ ३३२ ॥ किञ्च-अस्मिन् पक्षे बन्धमोक्षव्यस्था न प्रापोतीति दर्शयति
विपर्यस्ताविपर्यस्तज्ञानभेदो न विद्यते।
एकज्ञानात्मके पुंसि बन्धमोक्षौ ततः कथम् ! ॥.३३३॥ यस्य हि प्रतिक्षणध्वंसि प्रतिपुरुषमनेकमेव विज्ञानं सन्तानभेदि प्रवर्तत इति पक्षः, तस्य विपर्यस्ताविपर्यस्तज्ञानप्रबन्धोत्पादवशाद् बन्धमोक्षव्यवस्था युक्तिमती । योगाभ्यासक्रमेण १. विज्ञानां-पा०, विज्ञाने-गा० । २-२. पाठोऽयं पा०. गा० पुस्तकयो स्ति। .