________________
आत्मपरीक्षा
निर्देशो रूपशब्देन स्वभावस्याभिधानतः ॥ ३२६ ॥
यदि हि निर्भागम्, तदा द्विरूपमित्येतद् व्याहतम्; नानार्थविनिबन्धनत्वादस्य व्यपदेशस्य। कस्मात् ? रूपशब्देन स्वभावस्याभिधानात् । तथा हि-द्वे रूपे = द्वौ स्वभावौ यस्य स द्विरूप उच्यते । न चैकस्य स्वभावद्वयं युक्तम्; एकत्वहानिप्रसङ्गात् । केवलं द्वावेव स्वभावौ भवता प्रतिपादितौ, न पुनरेकं वस्तु द्विरूपम्, परस्परपरिहारस्थितलक्षणत्वादेकत्वानेकत्वयोः ॥ ३२६॥
यश्च नरसिंहः सोऽप्येकः सन् द्विरूपो न सिद्ध इति दर्शयतिनरसिंहोऽपि नैवैको द्वयात्मक श्चोपपद्यते ।
अनेकाणुसमूहात्मा स तथा हि प्रतीयते ॥ ३२७॥
केवलं विवादास्पदीभूतं नोपपद्यत इत्यपिशब्दः । स इति नरसिंहः । तथेति । अवयववैचित्र्येण, पृथुतरदेशाक्रान्तिरूपेण च; अन्यथैवं न प्रतिभासेत । मक्षिकापदमात्रेणापि च पिधाने तस्य तथाविधस्यावरणप्रसङ्गश्च । एतेन मेचकमणिकल्पा वर्णादयः प्रत्युक्ताः । एतच्च विस्तरेणा वयविनिषेधे प्रतिणदयिष्याम इति भावः ॥ ३२७॥
इति दिगम्बरपरिकल्पितात्मपरीक्षा ॥
१११
५. औपनिषदिकात्मपरीक्षा
[G.123] अपरेऽद्वैतदर्शनावलम्बिनाश्चौपनिषदिकाः क्षित्यादिपरिणामरूपनित्यैकज्ञानस्वभावमात्मानं कल्पयन्ति । अतस्तेषामेव मतमुपदर्शयन्नाह
नित्यज्ञानविवर्त्तोऽयं क्षितितेजोजलादिकः ।
आत्मा तदात्मकश्चेति सङ्गिरन्तेऽपरे पुनः ॥ ३२८ ॥ तदात्मक-इति। क्षित्यादिपरिणामरूपनित्यैकज्ञानात्मक इत्यर्थः । अपर इति औपनिषदिकाः ॥ ३२८ ॥
किमत्र प्रमाणम् ? इत्याह
ग्राह्यलक्षणसंयुक्तं न किञ्चिदिह विद्यते ।
विज्ञानपरिणामोऽयं तस्मात् सर्वः समीक्ष्यते ॥ ३२९ ॥
न हि क्षित्यादयो ज्ञानव्यतिरेकेण ग्राह्यलक्षणापन्नाः सन्ति, येन ते प्रतिभासेरन्नवयविनः; परमाणूनां चासत्त्वात् । तत्सामर्थ्याद्विज्ञानप्रतिभासरूपा एवामी क्षित्यादय इति व्यवसीयन्ते । अयमिति क्षित्यादिः ॥ ३२९ ॥
तेषामित्यादिना प्रतिविधत्ते
तेषामल्पापराधं तु दर्शनं
नित्यतोक्तितः । रूपशब्दादिचित्तानां व्यक्तं भेदोपलक्षाणत् ॥ ३३० ॥
१. द्विरूपत्ये पा०, गा ।