________________
११०
तत्त्वसंग्रहे समाना जलसन्धारणादिलक्षणाः, असमाना वस्त्ररागलोचनादिज्ञानोत्पादलक्षणाः, तत्र योग्याः समर्था सति विग्रहः । तत्र साधारणे कार्ये सर्वेषामेव यौगपद्येनोपयोग इति समस्तानां हेतुत्वज्ञापनार्थमभिन्नद्रव्यरूपाभावेऽपि त एव भेदिनोऽपि 'घटः' इत्यादिना शब्देनैकसङ्ख्याविशिष्टा उच्यन्ते। असाधारणकार्योपयोगित्वविवक्षायां तु नानासङ्ख्यास्त इति सङ्ख्याभेदः, कार्यभेदश्च तेषु व्यवस्थाप्यते। ... लक्षणभेदस्तर्हि कथम्? इत्याह-तुल्यादिज्ञानहेतवइति। आमपक्वाद्यवस्थासु प्रतिक्षणध्वंसिनोऽपि सदृशसन्निवेशा विशेषा एवोत्पद्यमाना निर्विकल्पानुभवविषया अनुभूयमानाः सर्वावस्थासु घटो घट इत्यादिसदृशप्रत्ययहेतवो भवन्ति। श्यामलोहितादिवर्णवैलक्षण्येन जायमाना अतुल्यप्रत्ययहेतवः-इत्येवमेकरूपानुगममन्तरेणापि तुल्यातुल्यज्ञानहेतवो भवन्तोऽनुवृत्तिव्यावृत्तिरूपेण व्यवस्थाप्यन्त इति लक्षणभेदो व्यवस्थाप्यते। तुल्यादि' इत्यादिग्रहणेनातुल्यं ज्ञानं गृह्यते। कस्तर्हि संज्ञाभेदः? इत्याह
तथाविधार्थसङ्केतशब्दप्रत्ययगोचराः ॥३२३॥ . तथाविधः विविधार्थक्रियायोग्यस्तुल्यादिज्ञानहेतुश्च पदार्थो रूपादिः, अर्थः विषयो यस्य= घटः' इति 'रूपादयः' इति च सङ्केतस्य, स तथोक्तः, तथाविधार्थः सङ्केतो येषां शब्दप्रत्ययानां ते तथोक्ताः, तेषां गोचरा इति विग्रहः ॥ ३२३ ॥ तेन प्रत्यक्षत एव भावानां नैरात्म्यं प्रसिद्धमित्युपसंहारेण दर्शयति
उदयव्ययधर्माण: पर्याया एव केवलाः।
संवेद्यन्ते ततः स्पष्टं नैरात्म्यं चातिनिर्मलम्॥३२४॥ पर्याया इति। रूपादयः, स्वसंविदितस्वभावाश्च दुःखादयः। केवला [G.122] इति। अभिन्नैकद्रव्यरूपविरहिणः। नित्यस्य च क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । अर्थक्रियाकारित्वमेषामुदयव्ययधर्मित्व एव सति युज्यत इत्यनुमानतोऽप्येषामर्थक्रियाकारिणां सत्त्वलिङ्गानैरात्म्यं प्रसिद्धम्॥ ३२४॥
यदुक्तम्- "न चोपलभ्यरूपस्य" इत्यादि (तत्त्व० ३२२), तत्र अथेत्यदिना परस्योत्तरमाशङ्कते
अथ सम्मच्छितं रूपं द्रव्यपर्याययोः स्थितम्।
तद् द्विरूपं हि निर्भागं नरसिंहवदिष्यते ?॥३२५ ॥ सम्मूछितम् सम्मूछितम्-एकलोलीभूतम्; अतो विवेकेन द्रव्यरूपं न प्रतिभासते विद्यमानमपीति भावः । सम्मूर्छितत्वे कारणमाह-तद् द्विरूपं हीत्यादि। तत्= आत्मादिकं वस्तु । यस्मात्तद् द्विरूपमपि सन्नि गमिष्यते, यथा-नरसिंहः; तस्मानिर्भागत्वात् सम्मूछितोभयरूपं तदिति न पृथगुपलभ्यते ॥ ३२५ ॥ तदेतत् परस्परपराहतमभिधीयते भवतेति दर्शयन्नाह
ननु 'द्वैरूप्यमित्येष नानार्थविनिबन्धनः। . १. स्वभावस्य-जै०।