________________
१०९
आत्मपरीक्षा ततश्च परमार्थेन द्रव्यपर्याययोभेदे सति लक्षणभेदोऽपि न प्रापोतीति [G.120] दर्शयति
अगौणे चैवमेकत्वे द्रव्यपर्याययोः स्थिते। व्यावृत्तिमद् भवेद् द्रव्यं पर्यायाणां स्वरूपवत्॥३१७॥ यदि वा तेऽपि पर्यायाः सर्वेऽप्यनुगतात्मकाः।
द्रव्यवत् प्राप्नुवन्त्येषां द्रव्येणैकात्मता स्थितेः॥३१८॥ यव्यावृत्तिमद्रूपाभिन्नस्वभावं तव्यावृत्तिमत्, यथा-पर्यायाणां स्वरूपम्। व्यावृत्तिमद्रूपाव्यतिरिक्तं च द्रव्यमिति स्वभावहेतुः । अथ वा-यदनुगतात्मरूपाव्यतिरिक्तं तदनुगतात्मकमेव, यथा- द्रव्यरूपम् । अनुगतात्मरूपाविभिन्नस्वभावाश्च सुखादयः पर्याया इति स्वभावहेतुरेव; अन्यथा विभिन्नयोगक्षेमत्वाद्भेद एव भवेत्। विरुद्धधर्माध्यासितस्याप्येकत्वे भेदव्यवहारोच्छेद एव स्यादिति विपर्यये बाधकं प्रमाणम्॥३१७-३१८ ॥ तत इत्यादिनोपसंहरति
ततो नावस्थितं किञ्चिद् द्रव्यमात्मादि विद्यते।
पर्यायाव्यतिरिक्तत्वात् पर्यायाणां स्वरूपवत्॥३१९॥ आत्मादीति । आदिशब्देन घटव्रीह्यादिपरिग्रहः ॥ ३१९ ॥ न चेत्यादिना द्वितीयप्रसङ्गसाधनफलमाह- .
न चोदयव्ययाक्रान्ताः पर्याया अपि केचन।
द्रव्यादव्यतिरिक्तत्वात्तद् द्रव्यनियतात्मवत्॥३२०॥ तस्यापि द्रव्यस्य पर्यायरूपेणोदयव्यंयाक्रान्तस्येष्टत्वादतो मा भूत् साध्यवैकल्यप्रसङ्ग इति नियतात्मवंदित्युक्तम्। नियतश्चासावात्मा स्वभावो द्रव्यादिरूपेणेति विशेषणसमासः ॥३२० ॥ - ततो निरन्वय इत्यादिना निगमयति
ततो निरन्वयो ध्वंस: स्थिरं वा सर्वमिष्यताम्।
एकात्मनि तु नैव स्तो व्यावृत्त्यनुगमाविमौ ॥३२१॥ न केवलं पर्यायादभिन्नस्वभावाद् द्रव्यरूपस्यानुगतात्मनोऽसिद्धिः, इतोऽपि पर्यायव्यतिरेकेणोपलब्धिलक्षणप्राप्तस्यानुपलब्धेरसद्व्यवहारविषयत्वमेवास्य-इति दर्शयन्नाह
न. चोपलभ्यरूपस्य . पर्यायानुगतात्मनः।
द्रव्यस्य प्रतिभासोऽस्ति तनास्ति गगनाब्जवत्॥३२२॥ [G.121] तेन यदुक्तम्-"प्रत्यक्षत एवानुगतो द्रव्यात्मा सिद्धः" इति, तदसिद्धम्; न हि पर्यायव्यतिरिच्यमानशरीर: क्वचिदपि विज्ञाने प्रत्यक्षसम्मते प्रतिभासमानोऽनुगतैकरूपो द्रव्यात्मा लक्ष्यते ॥ ३२२॥
__ यद्येवम्, यदि पर्यायव्यतिरेकेण द्रव्यात्मा नास्ति, तदा सङ्ख्यादिभेदः कथं सिध्यति? इत्याह
विविधार्थक्रियायोग्यास्तुल्यादिज्ञानहेतवः। विविधाः-नानाप्रकाराः, अर्थक्रिया: रूपादीनां पर्यायाणां समानासमानभेदात्, तत्र