________________
१०८
तत्त्वसंग्रहे तथा हि-यद्येकान्तेन पर्यायेभ्यो द्रव्यं व्यतिरेकि भवेत्, तदा स्यात्तस्या विशेषः; [G.119] यावता देशकालस्वभावाभेदाद् द्रव्यपर्याययोरैक्यमिष्टम् । सङ्ख्यादिभेदात्तु भेदः । तत्र सङ्ख्या, एकत्वबहुत्वादि । तथा हि-द्रव्यमेकसङ्ख्यायुक्तम्, पर्यायास्तु सुखादयोऽनेकसङ्ख्याविशिष्टाः । लक्षणमपि भिन्नम्; यतोऽनुवृत्तिलक्षणं द्रव्यम्, पर्यायास्तु व्यावृत्तिलक्षणाः, संज्ञा-नाम, अर्थ:-कार्यम् । तथा चोक्तम्-"देशकालस्वभावाभेदादभेदो धर्मधर्मिणोः, सङ्ख्यासंज्ञालक्षणकार्यभेदात्तु भेदः । तद्यथा-घटस्य रूपादीनां च" ( . ) इति। तथा हि-घटतद्रूपादीनां देशादिभिरभेदः, य एव हि देशकालस्वभावाश्च घटस्य त एव रूपादीनाम्, सङ्ख्यादिभिश्च घटात्तेषां भेदः । तथा हि–एको घटो बहवस्तु रूपादय इति सङ्ख्याभेदः, घटो रूपादय इति च संज्ञाभेदः, अनुवृत्तिलक्षणं घटादिद्रव्यम्, व्यावृत्तिलक्षणांस्तु रूपादयः पर्याया इति लक्षणभेदः । घटेनोदकाहरणं कार्यं क्रियते, रूपादिभिस्तु वस्त्ररागादीति कार्यभेदः । एवमात्मद्रव्येऽपि चैतन्यात्मके सुखदुःखादिषु पर्यायेषु चोह्यम्॥ ३१३ ॥
___ कार्यभेदस्तु तत्रैवं बोद्धव्यः-चैतन्येनार्थानुभवः क्रियते, सुखादिभिस्तु पीडानुग्रहादीति। तदेतद्दर्शयति
रूपादयो घटश्चेति सङ्ख्यासंज्ञाविभेदिता। कार्यानुवृत्तिव्यावृत्ती लक्षणार्थविभेदिता॥३१४॥ द्रव्यपर्याययोरेवं नैकान्तेनाविशेषवत्।
द्रव्यं पर्यायरूपेण विशेषं याति चेत् स्वयम् ॥ ३१५॥ सङ्ख्यासंज्ञाविभेदितेति। 'द्रव्यपर्याययोः' इति वक्ष्यमाणं सम्बध्यते। कार्यानुवृत्तिव्यावृत्ती लक्षणार्थविभेदितेति । यथायोगं सम्बन्धः । कार्यभेदोऽर्थविभेदिता, अनुवृत्तिव्यावृत्ती लक्षणविभेदितेति सम्बन्धः । द्रव्यपर्याययोरित्यत्र छेदः । एचमित्यादिना हेतोरसिद्धिमुपसंहरति । एवं च कृत्वा द्रव्यमेकान्तेन नाविशिष्टम्; किन्तु पर्यायरूपभेदेन पर्यारूपविभागेन विशेष प्रतिपद्यते। तेन पर्यायेभ्यो द्रव्यस्यैकान्तेन भेदाभावादित्यसिद्धो हेतुः ॥ ३१४-३१५ ॥ स्वभावाभेद इत्यादिना प्रतिविधत्ते
स्वभावाभेद एकत्वं तस्मिन् सति च भिन्नता।
कथञ्चिदपि दुःसाधा पर्यायात्मस्वरूपवत्॥३१६॥ यदि हि द्रव्यपर्याययोरभेदोऽप्यङ्गीक्रियते, तदा सर्वात्मनैवाभेदोऽयं भवेत्। भेदश्च तद्विपरीतः कथं भवेत्, न ह्येकस्यैकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तौ। तथा हिएकमित्येन भेदनिषेधनान्तरीयक: स्वभावाभेद उच्यते, तस्मिश्च स्वभावाभेदे सति कथं तदानीमेव भेदस्तत्प्रतिषेधात्मा भवेत् ! प्रयोगः-यत्राभेदस्तत्र तद्विपरीतो न भेदोऽवकाशं लभते, यथा तेषामेव पर्यायाणां द्रव्यस्य च यत्प्रतिनियतमसाधारणमात्मरूपं तस्य न स्वभावाद्भेदः । अभेदश्च द्रव्यपर्याययोरवस्थित इति विरुद्धोपलब्धेः ॥ ३१६ ॥ १-१. चेयम्-पा०।
२. पा० गा० पुस्तकयो स्ति। ३. दुःसाध्या- पा०, गा०।
४. सर्वात्मनैवाभेदो-जै०।